________________
पवृचानां श्राद्धप्रयोगः। १५३ उपर्वाती स्वयं पत्न्यादिना वान्नं देवपूर्व परिविष्यानोकरणपानं पित्रादिपाध्वेव दया देवपात्रं गायच्याभ्युक्ष्य तृष्णी परिषिच्य न्यङ्मुखेनोपरिस्थितेन सव्येन पाणिना पात्रमालभ्य "पृथिवी ते पात्रं द्यौरपिधानं ब्राह्मणस्य मुखे अमृतऽमृतं जुहोमि स्वाहा ब्राह्मणानां त्वाविद्यावतां प्राणापानयोर्जुहोम्याक्षितम. सि मैषां क्षेष्ठा अमुत्रामुष्मिन्लोके" इत्यभिमन्व्य "इदं विष्णुर्वि. पांसुरे" विष्णो हव्यं रक्षस्त्रनि विप्राङ्गुष्ठमूलमन्त्र निवेश्य यवो. दकमादायात्र पुरूरवाद्रवसंज्ञकविश्वदेवा देवता इदमन्नं हविरयं ब्राह्मण आहवनीयार्थे इयं भूमिर्गया अयं भोक्ता गदाधर इदमन्नं ब्रह्मेदं सौवर्णपात्रमक्षय्यबटरछायेयं पुरूरवा० विश्वभ्योदेवेभ्य इदमन्नममृतरूपं परिविष्टं परिवेक्ष्यमाणं चातृप्तः स्वाहा हव्यं न मम इति दक्षिणभागे जलं क्षिपेत् । “ये देवासो दिव्ये० यज्ञमिमं जुषध्वं नमो देवेभ्यः" इत्युपस्थाय प्राचीना. वीती सव्यं जान्वाच्य पितृपात्रस्थमन्नं गायत्र्याभ्युक्ष्य तूष्णीं परिषिच्योत्तानेनाधःस्थितेन दक्षिणेनाधोमुखेनोपरिस्थितन सव्येन पितृपात्रमालभ्य पूर्ववत् पृथिवीत इत्यादि कुर्यात् । तत्रायं विशेषः। यवोदकस्थाने तिलोदकं, स्वाहास्थाने स्वधा, हव्ये कव्यं, सौवर्णे राजतं, पुरूरवावस्थाने पितृपितामहप्रपितामहा देवताः, विश्वेभ्यो देवेभ्य इत्यस्मिन्स्थाने पिपितामहप्रपितामहेभ्योऽमुक. शर्मभ्योऽमुकगोत्रेभ्यो वसुरुद्रादित्यस्त्र रूपेभ्य इति "ये चेह पितरो० कृतं जुषस्व"इत्युपस्थायोपवीती "ब्रह्मार्पणं ब्रह्महविः समाधिना" "हरिताह० पतेहरिः" "चतुर्भिश्चचतु० प्रसीदतु" येषामुद्दिष्ट तेषामक्षय्या तृप्तिरस्तु तत्सद्ब्रह्मार्पणमस्तु "एको विष्णुमहद्भूतं. भुगव्ययः" अनेन ब्राह्मण भोजनेनास्मपितृपितामहप्रपितामह स्वरूपी जनार्दनवासुदेवः प्रीयताम् ।।
ईशानविष्णुकमलासनकार्तिकेय
वहित्रयार्करजनीशगणेश्वराणाम् ।। २० श्रा० चं९