________________
अत्यसमर्थस्य श्राद्धसिद्धिप्रकारः । १४७
पितामहभट्ट श्रीनारायणपदपाथोजविरचिते त्रिस्थली सेतौ द्रष्टव्य इति दिकू ।
अथात्य समर्थस्य श्राद्धसिद्धि है माद्र्यादिधृत भविष्यवि ष्णुपुराणादिषु -
अग्निना वा दहेत्कक्षं श्राद्धकाले समागते । तस्मिन्वोपवसेदहि जपेद्वा श्राद्धसंहिताम् ॥ यथाशक्त्या तु दातव्यं श्राद्धकालसमागमे । कच्चं = पर्वतदरीति हेमाद्रिः । वृद्धवसिष्ठः–
किञ्चिद्दद्यादशक्तस्तु उदकुम्भादिकं द्विजे । तृणानि वा गवे दद्यात्पिण्डान्वाप्यथ निर्वपेत् || तिलदर्भैः पितृन्वापि तर्पयेत्स्नानपूर्वकम् । इति । प्रचेताः-
पिण्डमात्रं प्रदातव्यमभावे द्रव्यविप्रयोः । श्राद्धानि तु सम्प्राप्ते भवेन्निरशनोऽपि वा ।। वराहपुराणे-
सर्वाभावे वनं गत्वा स्कन्धमूलम दर्शकः । कक्षा मूलप्रदर्शक इति पाठान्तरम् । सूर्यादिलोकपालानामिदमुचैः पठिष्यति ॥
न मेऽस्ति वित्तं न धनं च नान्यच्छ्राद्धोपयोगि स्वपितॄन्नतोऽस्मि । तृप्यन्तु भक्त्या पितरो मयैतौ भुजौ कृतौ वर्त्मनि मारुतस्य ॥ इत्येतत्पितृभिर्गीत भावाभावप्रयोजनम् ।
यः करोति कृतं तेन श्राद्धं भवति भारत ! ॥ इति । अत्र वृद्धिश्राद्धादिकं विस्तरभिया नोक्तं तनिबन्धान्तरेऽवलोकनीयम् ।
अथ सकलशिष्टवर्य परिगृहीतो बह्वृचश्राद्धप्रयोगः । उक्तनियमयुक्तः श्राद्धकर्त्ता श्राद्धदिने तिथ्यादि सङ्कीर्त्य