________________
श्राद्धचन्द्रिकायाम्
प्राचीनावती अस्मपितृपितामहप्रपितामहानाममुकशर्मणाममुकगो. त्राणां वसुरुद्रादित्यस्वरूपाणामन्नेन हविषा पार्वणविधिना क्ष. याहश्राद्धं करिष्य इति सङ्कल्प्योपवीती पवित्रं बिभृयात् । तत्र मन्त्रः "पवित्रवन्तः परिष्कारभं" ततो ब्राह्मणानिमन्त्रयेत । तत्र प्रामुखमेकं द्वौ वा विश्वेदेवस्थाने उदङ्मुखमेकं त्रीन्या पितृस्थाने। अस्मत्पित्रादीनां श्राद्ध पुरुरवावसंज्ञकविश्वेदेवस्थाने त्वामहं निमन्त्रये दैवे क्षणः क्रियतामितिब्रूयात् । ॐ तथेतीतरः प्रतिघूयात् । ततः कर्ता मामोतु भवान्प्रामवानीतीतरः । कर्ता प्राची. नावीती अस्मपितृपितामहप्रपितामहानाममुकशर्मणाममुकगोत्रा. णां वसुरुद्रादित्यस्वरूपाणां स्थाने त्वां निमन्त्रये पित्र्ये क्षणः क्रियताम् । ततः कर्लोपवीती
अक्रोधनैः शौचपरैः सततं ब्रह्मवादिभिः । भवितव्यं भवद्भिश्च मया च श्राद्धकारिणा ॥ सर्वायासविनिर्मुक्तैः कामक्रोधविवर्जितैः ।
भवितव्यं भवद्भिर्नोऽद्यतने श्राद्धकर्मणि ॥ इति पठित्वा श्राद्धाधिकारसिद्ध्यर्थं पुरुपमूक्तजपमहं करिष्ये ॐ सहस्रशीर्षा ऋ० १६ 'अतो देवाः' 'शुचीयो हव्या०' 'अपवि. त्रः पवित्रो वेति । ततो ब्रह्मदण्डार्थ सतिलकुशं ब्राह्मणांग्रे निधाय समस्तसम्पदिति श्लोकत्रयं पठित्वा प्रदक्षिणां कृत्वा प्राचीना. बीती पितृश्राद्धं कर्तुं ममाधिकारसम्पदस्त्विति भवन्तो ब्रुवन्तु । अस्तु श्राद्धाधिकारसम्पदिति ब्राह्मणैरनुज्ञातो यज्ञोपवीती तिथ्यादि सङ्कीर्त्य दक्षिणामुखः प्राचीनाबीती सव्यं जान्याच्यास्मत्पित्रादीनां पूर्वोपक्रान्तं श्राद्धं युष्मदनुज्ञया सद्यः करिष्ये, कुरुष्व, उपवीती स्वागतं सुस्वागतम् ।
आगच्छन्तु महाभागा विश्वेदेवा महाबलाः । ये यत्र विहिताः श्राद्ध सावधाना भवन्तु ते ॥