________________
तीर्थमासी कर्तव्यता ।
१३७
वायुपुराणे,
उद्यतस्तु गयां गन्तुं श्राद्धं कृत्वा विधानतः । विधाय कार्पटीवेषं कृत्वा ग्रामं प्रदक्षिणम् ॥ ततो ग्रामान्तरं गत्वा श्राद्धशेषस्य भोजनम् । ततः प्रतिदिनं गच्छेत्प्रतिग्रहविवर्जितः ॥ इति । केचित्तु गयामुपक्रम्यैवास्य विधानाद्द्वयायात्रायामेवैष कार्यटीवेषः कार्य इत्याहुः । सर्वतीर्थयात्रायामपीति श्री भट्टवादाशयः । केचित्तु गयायात्राङ्गवपनं न कार्यमित्याहुः ।
केशश्मश्रुनखादीनां वपनं न च शस्यते ।
अतो न कार्यं वपनं गया श्राद्धार्थिना सदा || इति महाभारतात् । (१) तीर्थं गच्छतोऽन्तरा पुण्यनदीप्राप्तौ विशेषः ।
मार्गेऽन्तरा नदीप्राप्तौ स्नानादि परपारतः । अर्वागेव सरस्वत्या एष मार्गगतो विधिः । स्थलान्तरे निवसतां न तु तत्तीर्थवासिनाम् । इति । तत्रापि श्राद्धादि कार्यमेव । "अर्थ तीर्थफलं तस्य" इति प्रागुक्तवचनात् । गच्छतो मध्येमार्गमा शौचादिसम्भवे शुद्धिपर्यन्तं तत्र स्थित्वाग्रे गच्छेत् ।
तीर्थं गच्छेश्वरेत्सन्ध्यास्तिस्र एकत्र मानवः । नास्नातो नाशुचिर्गच्छेन्न भुक्का न च सूतकी ॥ इति सामान्यप्रघट्टके श्री भट्टपादपाथोजघृतवचनात् ।
(१) वायुपुराणे-गयायां सर्वकालेषु पिण्डं दद्याद्विचक्षणः । अधिमासे जन्मदिने अस्ते च गुरुशुक्रयोः ॥
न त्यक्तव्यं गयाश्राद्धं सिंहस्थे च बृहस्पतौ ॥ इति । अत्र गया श्राद्धस्य यात्रा पूर्वकत्वाद्ययात्रेव न निषिद्धति भावः । इत्यधिकं द्वितीयपुस्तके |
१८ भा० चं०