SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ श्राद्धधन्द्रिकायाम् अत्र केचित् “नौकायानमयानं स्यात" इति वचनान्नौका. याने दोषाभावमाहुस्तत्तुच्छम् । यानेषु नौकाया अपि परिगणित. त्वात् । अयानमिति तु नरयानवदनुकल्पसूचकम् । व्यवस्थापितं च सामान्यप्रघट्टके नावो यानत्वमस्मन्मातुः पितामहमदृश्री. नारायणपदपाथोजैः । सोपानको व्रजेच्चत्फलाल्पतेत्याहजापालिक द्विोजनं तृतीयांश हरेत्तीर्थफलस्य च । यानमधं चतुर्थाशं छत्रोपानहमेव च ॥ तस्मादेतैविहीनस्तु सर्वतीर्थफलं लभेत् । इति । प्रथमतीर्थयात्रायां कालशुदिग्रन्थगौरवभीत्येह नोक्ता सा जागरूकसामान्यप्रघट्टके द्रष्टव्या। अथ तीर्थयात्राविधिः। उपोष्य रजनीमेकां प्रातः श्राद्धं विधाय च । गणेशब्राह्मणानत्वा भुत्का प्रस्थितवान्मुधीः ॥ इति स्कान्दात् पूर्वदिनमुपोष्य द्वितीयेऽहि श्राद्धं कृत्वा गणेशादीन्नत्वा भुरका प्रस्थानं कुर्वीत । इदं च श्रादं घृतद्रव्यकं कार्यम् । गच्छेद्देशान्तरं यस्तु श्राद्धं कुर्यात्स सर्पिषा । यात्रार्थमिति तत्प्रोक्तं प्रवेशे च न संशयः ॥ इति विष्णुपुराणोक्तेः । सामान्यप्रघट्टके भट्टपादास्तु घृतमुख्य कद्रव्येण कार्यमित्याहुः । उपवासात्यामुण्डनं कुर्यात् । प्रयागे तीर्थयात्रायां पितृमातृवियोगतः । कचानां वपनं कुर्याद्वथा न विकचो भवेत् ॥ इति विष्णूक्तेः । इदं च वपनं प्रायश्चित्तार्थयात्रायामेव कार्यमिति केचित् । कार्पटिकवेषेणैव तीर्थगमने तदित्यन्ये । कार्पटिकवेषः कार्य इत्युक्तम्
SR No.022248
Book TitleShraddh Chandrika
Original Sutra AuthorN/A
AuthorDivakar Bhatt
PublisherChowkhambha Sanskrit Series
Publication Year1934
Total Pages192
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy