SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ तीर्थश्राद्धप्रसङ्गेन तीर्थयात्रानिरूपणम् । ११५ प्रायश्चित्ती व्रजेत्तीर्थं पत्नीविरहितोऽपि वा । वनधिकारी वा यश्व वा मन्त्रसाधकः ॥ इति तत्रैवोक्तेः । स्कान्दे विधवाधर्मप्रकरणे – स्नानं दानं तीर्थयात्रां विष्णोर्नामग्रहं मुहुः । कुर्यादित्यग्रिमेणान्वयः । यत्तु मनुवचो जपस्तपस्तीर्थयात्रा प्रव्रज्या मन्त्रसाधनम् । देवताराधनं चेति स्त्रीशूद्रपतनानि षट् ॥ इति, तन्निरन्तर तीर्थयात्रादिनिषेधकम् । तथाच -- शातातपः - निरन्तरं तीर्थसेवा सन्न्यासो मन्त्रसाधनम् । देवताराधनं ध्यानं तेषां पापावहं परम् ॥ इति । प्रसङ्गेन तीर्थप्राप्तौ फळा लपतेत्याहतुः -- शङ्ख-पैठीन सी, तीर्थं प्राप्य प्रसङ्गेन स्नानं तीर्थे समाचरेत् । स्नानजं फलमाप्नोति तीर्थयात्राकृतं न तु ॥ अर्ध तीर्थफलं तस्य यः प्रसङ्गेन गच्छति । षोडशांशं स लभते यः परार्थेन गच्छति ।। इति । तीर्थयात्रा च पद्यां कार्यम् । तीर्थानुगमनं पद्भ्यां तपः परमिहोच्यते । तदेव कृत्वा यानेन स्नानपात्रफलं लभेत् ॥ इति प्रभासखण्डात् । अशक्तेन यानमारुह्यापि गन्तव्यम् । असमर्थस्तु यानेन तीर्थयात्रां समाचरन् । तदुक्तं फलमाप्नोति स्वशक्त्या धर्ममाचरन् ॥ इतिगोभिलोक्तेः । यानमुक्तम्कूर्म पुराणे, नरयानं चाश्वतरीहयादिसहितो रथः । तीर्थयात्रास्वशक्तानां यानदोषकरं नहि ॥
SR No.022248
Book TitleShraddh Chandrika
Original Sutra AuthorN/A
AuthorDivakar Bhatt
PublisherChowkhambha Sanskrit Series
Publication Year1934
Total Pages192
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy