________________
૨૪
श्राद्धचन्द्रिकायाम्
गयां प्रसक्तो गत्वा मातृश्राद्धं समाचरेत् । इति वचनात् । तच केवलं मातृवर्गस्यैव न तु मातामहादीनामपि । जीवस्पितुर्बुद्धिश्राद्धे तु षट्त्रिंशन्मते विशेषः । वृद्धौ तीर्थे च सम्भ्यस्ते ताते च पतिते सति ।
येभ्य एव पिता दद्यात्तेभ्यो दद्यात्स्वयं सुतः ॥ इति । साते सतीति तीर्थसन्न्यस्तपतितपदैः प्रत्येकं सम्बध्यते । सत्राप्याद्याभ्यां वैयधिकरण्येनोत्तराभ्यां सामानाधिकरण्येनेत्युक्तं श्राद्धमयूखे श्रीमातामहगुरुचरणैः ।
मनुः-
पिता यस्य तु वृत्तः स्याज्जीवेच्चापि पितामहः । पितुः स नाम सङ्कीर्त्य कीर्त्तयेत्प्रपितामहम् ॥ इति शुभम् । अथ तीर्थश्राद्धम् ।
जागर्त्ति सेतुर्भुवि भट्टनिर्मितस्तथापि किञ्चित्प्रवदामि भूयः । यात्राधिकारी कतमस्तु वर्णेष्वित्यादि सपत एवं सर्वम् ॥
तत्र
ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वा राजसत्तम ! | न वियोनिं व्रजन्त्येते स्नातास्तीर्थे महात्मनः ॥ इति भारते व्यासवचनात्तीर्थयात्रायां चातुर्वर्ण्यस्याप्य धिकारः । तत्र पातिव्रत्यादिगुणवती पत्नी विहाय गमने दोषधर्मः,
माह
पूतां पुण्यतमां भार्यौ यो वा त्यक्त्वा प्रयाति हि । तस्य पुण्यफलं सर्वे वृथा भवति नान्यथा ॥ इति । कोsपि -
सहानि सपनीको गच्छेतीर्थानि संपतः । इति । प्रायश्चित्तनिमित्तं गच्छति चेदपनीकोऽपि गच्छेत् ।