________________
जीवपितृकस्य श्राद्धाधिकारनिरूपणम् । १३३ इति यमवचनेन देशान्तरवासिनामविभक्तभ्रातृणां दर्श श्राद्धादिकं मिन्नं भवतीत्याहुः। आचारोऽपि शिष्टानामेवमेव । केचिश्वस्य वचनस्य चिन्त्यत्वं प्राहुरिति दिक् ।..
अथ जीवपितृकस्य श्राद्धाधिकारः । कात्यायन:.. सपितुः पितृकृत्येषु अधिकारो न विद्यते । लौगाक्षिरपि
दर्शश्राद्धं गयाश्राद्धं श्राद्धं चापरपक्षिकम् ।
न जीवपितृकः कुर्यातिलैः कुष्णैश्च तर्पणम् ॥ इति । क्रतुरपि
अष्टकादिषु सङ्क्रान्ती मन्वादिषु युगादिषु । चन्द्रसूर्यग्रहे पातं स्वेच्छया पूज्य योगतः ॥
जीवत्पिता नैव कुर्याच्छाद्धं काम्यं तथाखिलम् । इति । काभ्यम्
रेवतीषु तथा रौप्यमश्विनीषु तुरङ्गमान् । श्राद्धं कुर्वैस्तथामोति भरणीष्वायुरुत्तमम् ॥ तस्मात्काम्यानि कुर्वीत ऋक्षेष्वेतेषु मानवः । इति मार्कण्डेयादिवचनप्रणीतम् । पूज्ययोगता अल. भ्ययोगनिमित्तकः । आदिना पिण्डपितृयज्ञग्रहणम् । अत एवं पिण्डपितृयज्ञ प्रक्रम्य
आपस्तम्बा--यदि जीवत्पिता न दद्यादाहोमात्कृत्वा विरमेदिति । केषुचिच्छाद्धेषु त्वधिकारो मैत्रायणीयपरीिशष्टे--
आन्वष्टक्यं गयामाप्ती सत्यां यच्च मृतेऽहनि । मातुः श्राई सुतः कुर्यात्पितयपि च जीवति ॥
आन्वष्टक्यं महालयान्तर्गतनवम्यां क्रियमाणं मा. सुश्रादम् । गयापाप्तिः प्रासङ्गिकी न बुद्धिपूर्विका ।