________________
१३२
श्राद्धचन्द्रिकायाम् -
इति व्यासवचनात् । संसृष्टेष्वित्युक्तत्वात् तादृशेऽवसंस्ट
ष्टेषु पृथगेव भवन्ति । तथाचाश्वलायनोऽपि --
वसतामेकपाकेन विभक्तानामपि प्रभुः । एकस्तु चतुरो यज्ञान्कुर्याद्वाग्यज्ञपूर्वकान् || अविभक्ता विभक्ता वा पृथक्पाका द्विजातयः । कुर्युः [: पृथक्पृथग्यज्ञान्भोजनात्प्राग्दिने दिने || इति । पैठीनसिः
-
विभक्तेस्तु पृथक्कार्य प्रतिसम्बत्सरादिकम् । एकेनैवाविभक्तेषु कृतं सर्वैस्तु तत्कृतम् || सपिण्डीकरणान्तानि श्राद्धानि विभागे सत्यप्यग्रज एव कु· र्यात् । तथा चलघुहारीतः,
सपिण्डीकरणान्तानि यानि श्राद्धानि षोडश । पृथनैव सुताः कुर्युः पृथग्द्रव्या अपि कचित् । इति । उशना अपि
नवश्राद्धं सपिण्डत्वं श्राद्धान्यपि च षोडश । एकेनैव तु कार्याणि संविभक्तधनेष्वपि ॥
सपिण्डनोत्तरं व्यासः,
अर्वाक् संवत्सरात् ज्येष्ठः श्राद्धं कुर्यात्समेत्य तु । ऊर्ध्वं सपिण्डीकरणात् सर्वे कुर्युः पृथक् पृथक् ॥ इति । एवं च सति द्वादशाहादिषु सपिण्डने क्रियमाणेऽनुमासिकोदकुम्भश्राद्धानि विभक्तानां पृथक् पृथग्भवन्ति । मघाश्राद्धमविक्ता अपि पृथक्कुर्युरियदर्शि प्राक् । अविभक्तभ्रातॄणां युगपतीर्थप्राप्तौ ज्येष्ठ एव तीर्थश्राद्धं कुर्वीत भेदेन प्राप्तौ भिन्नमेव । एवं दर्शग्रहणयुगादिश्राद्धमविभक्तेषु ज्येष्ठस्यैव । केचित्तु - अविभक्तेन पुत्रेण पितृमेधो मृताहनि । देशान्तरे पृथक्कार्यो दर्शश्राद्धं तथैव च ॥