SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ विभक्ताविभक्तानां भ्रातॄणां ब्रह्मयज्ञादिनिर्णयः । १३१ मार्कण्डेय: COMEDOR ब्रह्मादिषु विवाहेषु या तूढा कन्यका भवेत् । भर्तृगोत्रेण कर्त्तव्या तस्याः पिण्डोदकक्रिया || आसुरादिविवाहेषु पितृगोत्रेण धर्मवित् । इति संक्षेपः । इति श्रीभारद्वाज महादेव भट्टात्मजदिवाकरविरचितायां श्राद्धचन्द्रिकायां सपिण्डीकरणनिर्णयः । अथ विभक्ताविभक्तनिर्णयं ब्रूमः । मिताक्षरायां नारदः - भ्रातॄणामविभक्तानामेको धर्मः प्रवर्त्तते । विभागे सति धर्मोऽपि भवेचेषां पृथक् पृथक् ॥ मरीचिरपि बहवः स्युर्यदा पुत्राः पितुरेकत्रवासिनः । सर्वेषां तु मतं कृत्वा ज्येष्ठेनैव तु यत्कृतम् ॥ द्रव्येण चाविभक्तेन सर्वैरेव कृतं भवेत् । बृहस्पतिरपि— एकपाके निवसतां पितृदेव द्विजार्चनम् । एकं भवेद्विभक्तानां तदेव स्याद्गृहे गृहे ॥ अविभक्तानामेकयज्ञानां ब्रह्मयज्ञादि पृथगेव भवति । पृथगध्येकपाकानां ब्रह्मयज्ञो द्विजन्मनाम् ॥ अग्निहोत्रं सुराच च सन्ध्या नित्यं भवेत्तथा ॥ इत्याश्वलायनोतेः । यदा विभक्ताः संसृष्टा भ्रातरस्तदा ज्येष्ठ एव देवयज्ञादीन्कुर्यात् । होमाभदानरहितं न भोक्तव्यं कदाचन । अविभक्तेषु संसृष्टेष्वेकेनापि कृतं कृतम् ॥
SR No.022248
Book TitleShraddh Chandrika
Original Sutra AuthorN/A
AuthorDivakar Bhatt
PublisherChowkhambha Sanskrit Series
Publication Year1934
Total Pages192
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy