________________
मातुः सपिण्डीकरणे विशेषः ।
अथ स्त्रीणां वदामः ।
हेमाद्रौ शातातपः,
मातुः सपिण्डीकरणं कथं कार्यं भवेत्सुतैः । पितामह्यादिभिः सार्द्धं सपिण्डीकरणं स्मृतम् ॥ इति । पक्षान्तरं तत्रैव स्मृत्यन्तरे
मातुः सपिण्डीकरणं पत्या सार्धं विधीयते । यस्मात्पतिव्रतानां वै स एव गतिरिष्यते ॥ एवं सति सन्देहे व्यवस्था भविष्यत्पुराणे - जीवत्पिता पितामह्या मातुः कुर्यात्सपिण्डनम् । प्रमीतपितृकः पित्रा तत्पित्रा पुत्रिकासुतः || तस्पित्रा=मातुः पित्रेत्यर्थः ।
लौगाक्षरपि
पितामहादिभिः सार्धं मातरं तु सपिण्डयेत् । पितरि म्रियमाणे तु तेनैवोपरते सति ॥ इति ।
१२९
अथ वा-
येनास्य पितरो याता येन याताः पितामहाः । तेन यायात्सतां मार्ग तेन गच्छन्न दुष्यति ॥ इत्यादिवचनैः स्वकुलपरम्परां विचार्य व्यवस्था बोध्या ।
सुमन्तुरपि
एवं शास्त्र गतिर्भिन्ना सर्वकर्मसु भारत ! | उदितेऽनुदिते चैव होमभेदो यथा भवेत् ॥ तस्मात्कुलसमायातमाचारं च चरेद्बुधः । इति । अपुत्राविषये पैठीनसिः -
अपुत्रायां मृतायां तु पतिः कुर्यात्सपिण्डनम् । श्वश्वादिभिः सहैवास्याः सपिण्डीकरणं भवेत् ॥ इति ।
अन्वारोहणे तु पत्यैव सह नियतं सपिण्डनम् । १७ श्रा० चं०