SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ १२८ श्राद्धचन्द्रिकायाम् असंस्कृतौ न संस्कार्यों पूर्वी पौत्रप्रपौत्रकैः । पितरं तत्र संस्कुर्यादिति कात्यायनोऽब्रवीत् ॥ पापिष्ठमपि शुद्धेन शुद्ध पापकृतापि वा। पितामहेन पितरं संस्कुर्यादिति निश्चयः ॥ इति कात्यायनोक्तेः । अयमर्थः। पूर्वी पितामहपितामहौ। पापिष्ठमकृतसपिण्डनं न तु पातित्य स्थितम्। "पापकर्मिणो न संसजेरन" इति गौतमोक्तेः। तादृशपितरं शुद्धेन निर्चित. सपिण्डीकरणेन, पापकृता-अनिवर्तितसपिण्डीकरणेन वा पितामहेन साकं शुद्धं सम्यक् संस्कुर्यादिति शास्त्रनिश्चय इति । ताशाभ्यां सह मासिकायपि कार्यम् । ___ मातुः सपिण्डतां कृत्वा कुर्यान्मासामानुसिकम् । इति तेनैवोक्तत्वात् । इत्थं चाविशेषानाहग्भ्यां सह दर्श श्राद्धमपि स्यादेव । कचित्तु दर्शश्राद्धं गयाश्राद्धं श्राद्धं चापरपक्षिकम् । प्रथमेऽन्दे न कुर्वीत कृतेऽपि तु सपिण्डने ॥ दर्शश्राद्धं गयाश्राद्धं श्राद्धं चापरपक्षिकम् । प्रथमेऽब्देऽपि कुर्वीत यदि स्याद्भक्तिमान्सुतः ॥ इति वचनद्वयं पठन्ति । तस्यायमर्थः । द्वितीयवचनं मुतग्रहणादाघान्दे दर्शश्राद्धादीनि मुत एवं कुर्यानान्यो भ्रात्रादिः। भक्तिमत्त्वं तु कर्माङ्गतया प्राप्तमन्यते । अतः मुतेनैव पित्रोराघाब्दे दर्शश्राद्धादिकं कार्यम् । यस्तु प्रमीतौ पितरौ यस्य देहस्तस्याशुचिर्भवेत् । न देवं नापि वा पिश्यं यावत्पूर्णों न वत्सरः ॥ इति देवलवचनेन पित्र्यकर्मनिषेधः स वर्षान्तर्पयन्तं स. पिण्डीकरणाकरणे बोध्या ।
SR No.022248
Book TitleShraddh Chandrika
Original Sutra AuthorN/A
AuthorDivakar Bhatt
PublisherChowkhambha Sanskrit Series
Publication Year1934
Total Pages192
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy