________________
१२६ श्राद्धचन्द्रिकायाम्
यवीयसा कृतं कर्म प्रेतशब्दं विहाय तु । तज्ज्यायसापि कर्तव्यं सपिण्डीकरणं पुनः ।। इति स्मृतेः । स्मृत्यर्थसारे तु
विभक्ता ऋद्धिकामाश्चेत्पुत्राः कुर्युः पृथक्पृथक् । इतिपक्षान्तरमुक्तम् । ये तु वृद्ध्यादिनिमित्तं विनापि
मातापित्रोर्मृतेः काले ज्येष्ठे देशान्तरे स्थिते ।
कनिष्ठेन प्रकर्तव्यं सपिण्डीकरणं तदा ॥ . इतिवचनात्कनिष्ठन कार्यमियाहुः । तेऽस्य वचनस्यापामा. ण्येन निरस्ता वेदितव्याः । सपिण्डीकरणेतिकर्तव्यतामाहयाज्ञवल्क्या ,
गन्धोदकतिलयुक्तं कुर्यात्पात्रचतुष्टयम् । अयोथै पितृपात्रेषु प्रेतपात्रं प्रसेचयेत् ।।
येसमाना इति द्वाभ्यां शेषं पूर्ववदाचरेत् । इति । ___ अर्यसंयोजनं च प्रेतायदानानन्तरमवशिष्टेन जलन पि. तामहार्यदानात्पूर्व कार्यम् । तथा च मदनरनेब्रह्मपुराणे,
प्रेतविप्रस्य हस्ते तु चतुभांग जलं क्षिपेत् । ततः पितामहादिभ्यस्तन्मन्त्रैश्च पृथक् पृथक् ॥ येसमाना इति द्वाभ्यां तज्जलं तु समर्पयेत् । अयोक्तेनैव विधिना प्रेतपात्रादि पूर्ववत् ॥
तेभ्योऽथ विनिवेद्यैवं पश्चाच्च स्वयमाचरेत् । इति । चतुर्भाग-चतुर्थभागम् । पिण्डसंयोजने विशेषस्तत्रैव
दवा पिण्डमथाष्टाङ्गं ध्यात्वा तं च सुभास्वरम् । मुवर्णरूप्यदभैस्तु तस्मिन्पिण्डत्रये त्रिधा ।। कृते पितामहादिभ्यः पितृभ्यः प्रेतमर्पयेत् । सुवर्तुलस्तितस्त्रीस्त्रीपिण्डान्कृत्वा प्रपूजयेत् ।।