SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ सपिण्डीकरणश्राद्धेऽधिकारिनिर्णयः। १२६ सीत्यस्याविवक्षितत्वादेकादशाहादेः सपिण्डीकरणमाकालीनै. कोपिष्टमात्रेऽस्य मध्यमक्रियात्वेन सपिण्डादीनां नृपत्यन्तानां तत्र कर्तृत्वोक्या ज्येष्ठकर्तृकत्वानियमस्य तत्रापवादे कृते तदुत्तरे सपिण्डीकरण एव ज्येष्ठककत्वनियमोऽवतिष्ठते । सपिण्डीकरणो. चरक्षयाहामावास्यामहाळयादिरूपोत्तरक्रियासु यद्यपि पुत्राभावे "पुत्राधैरेव चोत्तरा" इत्यनेन । पुत्रः पौत्रः प्रपौत्रो वा भ्राता वा भ्रातृसन्ततिः। इतिनिर्दिष्टानां भ्रातृसन्तत्यन्तानां दौहित्रदौहित्रतनयानां कर्तृत्वमुक्तं, तथापि तत्सपिण्डादीनामवनांपत्यन्तानां नित्यर्थं न तु ज्येष्ठे सतीतरेषां कर्तृत्वाय । “आब्दिकं तु पृथक् पृथक" इति प्रचेतोवाक्यशेषस्तु विभक्तविषयः । ज्येष्ठेऽसन्निहिते कनिष्ठ आहितामिः कुर्यादेव । अन्यथा पितृयज्ञासिद्धेः। एवमावश्यक. दिश्राद्धेऽपि कनिष्ठोऽन्यः सपिण्डो वा कुर्यात् । भ्राता वा भ्रातृपुत्रो वा सपिण्डः शिष्य एवं वा । सहपिण्डक्रियां कृत्वा कुर्यादभ्युदयं ततः ॥ इति लघुहारतिवचनात् । नन्वत्र वचने क्वाप्रययन समानकर्तृकत्वावगमात् कथं मृतस्य पुत्रादेरन्य एव सपिण्डः स. पिण्डीकरणं करोत्यन्यश्च सपिण्ड आभ्युदायिकमितिचेत्, मैवम् । प्रेतकर्माण्यनिर्वयं चरेन्नाभ्युदयक्रियाम् । आचतुर्थ ततः पुंसि पञ्चपे शुभदं भवेत् ॥ इति मेधातिथिपरिघृतवचनान्मूलपुरुषाच्चतुर्थपुरुषमभि. ध्याप्य यस्य कस्यापि सपिण्डस्य मृतस्य मासिकसपिण्डीकरणं विनाऽऽभ्युदयिक राभ्युदायके योग्यतासिद्ध्यभावेन क्त्वोक्त. स्य समानकीकत्वस्याविवक्षितत्वात् । अत्र भ्रात्रादयो मृतस्य बोध्याः । केनापि निमित्तेन कनिष्ठेन सपिण्डीकरणे कृतेऽसनिः हितज्येष्ठपुत्रोऽपि पुनः प्रेतशब्दमन्तरा तत्कुर्यात् ।
SR No.022248
Book TitleShraddh Chandrika
Original Sutra AuthorN/A
AuthorDivakar Bhatt
PublisherChowkhambha Sanskrit Series
Publication Year1934
Total Pages192
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy