________________
१२२ श्राद्धचन्द्रिकायाम्
इति नागरखण्डात् । वार्षिकदिन इति यावत । एतेषु कालेषु द्वादशाहः प्रशस्त इत्याह-- व्याघ्रा,
आनन्त्यात्कुलधर्माणां पुंसां चैवायुषः क्षयात् ।
अस्थितेश्च शरीरस्य द्वादशाहः प्रशस्यते ॥ इति । राजन्यवैश्ययोराशौचान्ते सपिण्डीकरणं कार्यम् । तथाच-- वृद्धमनुः,
द्वादशेऽहनि विषाणामाशौचान्ते तु भूभुजाम् ।
वैश्यानां तु त्रिपक्षादावथवा स्यात्सपिण्डनम् ॥ इति । अथवेति पक्षान्तरम् । वैश्यानामाशौचान्ते त्रिपक्षे वेति । निर्णयामृते कात्यायनोऽपि
सर्वेषां पेव वर्णानामाशौचान्ते सपिण्डनम् । इति । -- सर्वेषां विप्रराजन्यावशाम् । शुद्राणां त्वाशीचे सत्यपि
मन्त्रवर्ज हि शूद्राणां द्वादशेऽहनि कीर्तितम् । इति विष्णुक्तेद्वादशाह एव | अब्दपूः पूर्वमेव द्वादशाहे सपिण्डने क्रियमाणे आदौ षोडशश्राद्धापकर्षणं ज्ञेयम् । तथाचवृद्धवसिष्टः, - श्राद्धानि षोडशादत्वा न तु कुर्यात्सपिण्डताम् ।
तद्धानौ तु कृते प्रेतः पितृत्वं न प्रपद्यते ॥ इति । एवं च सति सपिण्डनोत्तरमपि स्वस्थकाले पुनर्यावदान्दिकान्तान्यावर्तनीयानि ।
यस्य संवत्सरादग्विहिता तु सपिण्डता । विधिवत्तानि कुर्वीत पुनः श्राद्धानि षोडश ॥ इति गोभिलोक्तः। विधिवत्-यथासम्प्रदायमेकोहि. क्रमेण पार्वणक्रमेण वेत्यर्थः । तदुक्तम्पैंठीनसिना,
सपिण्डीकरणादर्वाक्कुर्याच्छादानि षोडश ।