SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ सपिण्डीकरणश्राद्धस्य कालनिर्णयः। १२१ लघुहारीतोऽपि___ अनग्निस्तु यदा वीर ! भवेत्कुर्याचदा गृही। प्रेतश्चेदग्निमांस्तु स्यास्त्रिपक्षे वै सपिण्डनम् ।। इति । अत्राधिकरणसप्तविशात्समस्ततृतीय पक्षस्तत्कालः । एवं त्रिपासषण्मासादिष्वपि । अत्र श्रीमातामहास्तु यदा दम्प. सोरन्यतरस्य पूर्व मरणेनामयो. विनियुक्तास्तदेतरस्य सामिस्वाभावात्कालान्तरे तन्मरणे तु न त्रिपक्षनियमः । उत्सष्टामेरप्ये. वम् । विच्छिन्नामेस्तु आत्मन्यग्निसद्भावात्तस्य साग्नित्वेन त्रि. पक्ष एवेत्पाहुः । उभयोः साग्नित्वे द्वादशाह एव । सानिकस्तु यदा कर्ता प्रेतश्चाप्यग्निमान्भवेत् । द्वादशाहे तदा कार्य सपिण्डीकरणं पितुः ।। इति विज्ञानेश्वरमाधवोदाहृतसुमन्तूक्ते । हेमाद्रिकालादर्शयोनेदं वचनम् । तेन तन्मते पितुरपि साग्निकस्यापि सपिण्डने साग्निकस्यापि पुत्रस्य न द्वादशाहकर्तव्यतानियमः । किन्त्वनियम एव । पूर्वयोमते तु नियमः । वचनसद्भावात् । एवं पूर्वयोरपि मते पितृव्यातिरिक्तस्य साग्निकस्यापि सपिण्डीकरणे साग्निकस्यापि पुत्रातिरिक्तस्य भ्रातृव्यादेनं द्वादशाहनियमः पितुरित्युक्तेः । द्वयोरप्यनग्नित्वे तुभविष्ये, सपिण्डीकरणं कुर्याद्यजमानस्त्वननिमान् । अनाहिताग्नेः प्रेतस्य पूर्णेऽन्द भरतर्षभ ।। द्वादशेऽहनि षण्मासे त्रिपक्षे वा त्रिमासि वा । एकादशेऽपि वा मासि मङ्गलस्याप्युपस्थितौ ॥ इति । एते च सप्त काला इच्छया विकल्पन्त इति माधवः । वस्तुतस्तु बहुभिर्वचनैः सम्वत्सरान्तस्य मुख्यकालत्वादेतेऽनु. कल्पा एवेति युक्तम् । पूर्णेऽब्दे इत्यत्र तूत्तरेऽहि अयम् । ततः सपिण्डीकरणं वत्सरार्ध्वतः स्थितम् । १६ श्रा०चं.
SR No.022248
Book TitleShraddh Chandrika
Original Sutra AuthorN/A
AuthorDivakar Bhatt
PublisherChowkhambha Sanskrit Series
Publication Year1934
Total Pages192
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy