SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ १२० श्राद्धचन्द्रिकायाम्मध्यवर्तिदर्शवत्पिण्डपितृयज्ञो लुप्यते । दर्शानागमे तु द्वादशाहे मुख्यः कालः । तथाचभविष्यपुराणे, यजमानोऽमिमान् राजन्तश्चाप्यग्निको भवेत् । द्वादशाहे भवेत्कार्य सपिण्डीकरणं सुतैः ॥ इति ।। गोभिलोऽपि साग्निकस्तु यदा की प्रेतश्चाप्यमिमान् भवेत् ।। उत्तरार्धं तदेव । प्रतिबन्धेन तत्रान्तरिते काळमाह--- कात्यायन:, . एकादशाहं निर्वयं पूर्व दर्शाद्यथाविधि । प्रकुर्वीताग्निमाविमो मातापित्रोः सपिण्डताम् ॥ इति । दर्शात्पूर्व यस्मिन्कस्मिन् दिन इयर्थः । तत्राप्यन्तरिते त्रिपक्षादिषूत्तरकालेषु कार्यम् । तदाह सामिकं प्रकृत्यगोभिला, द्वादशाहादिकालेषु प्रमादादननुष्ठितम् । सपिण्डीकरणं कुर्यात्कालेषुत्तरमाविषु ॥ इति । अत्र वचनेषु पुत्रः सुतैर्मातापित्रोरिति श्रवणाजनकजना विध्यतिरिक्तस्य सपिण्डीकरणे प्राप्ते सानेः कर्तु द्वादशाहदर्शप्राक्तनयत्किश्चिदिननियमः । एवमपुत्राहिताग्नेः पत्नी कर्यपुत्रा. यास्तस्याः पतिः कर्ता तदापि नासौ नियमो नापि त्रिपक्षनियमाकि स्वनियम एष । त्रिपक्षे सपिण्डीकरणविधायकवाक्ये एके. नानग्निपदेनानाहितान्यविद्यमानान्योरुभयोनिर्देशायोगात् । मे. तस्यैव सामित्वे तृतीयपक्षे कार्यम् । प्रेतश्चेदाहिताग्निः स्यात्क ननिर्मदा भवेत् । : सपिण्डीकरणं तस्य कुर्यात्पक्षे तृतीयके ॥ । इति सुमन्तुवाक्यात् । अत्रानग्निरिति बहुव्रीहिणा सा. निकपदोक्तः पुत्र एव प्रत्यभिज्ञायते ।
SR No.022248
Book TitleShraddh Chandrika
Original Sutra AuthorN/A
AuthorDivakar Bhatt
PublisherChowkhambha Sanskrit Series
Publication Year1934
Total Pages192
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy