SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ चयाहाज्ञाने निर्णयः । अथ क्षयाहाज्ञाने निर्णयः । बृहस्पतिः न ज्ञायते मृताश्चेत्ममीते मोषिते सति । समाप्तश्चेत्मविज्ञातस्तद्दर्शे स्यान्मृतेऽहनि ॥ ज्ञातमासदर्श एव मृताह इत्यर्थः । कालान्तरमाहमरीचिः, श्राद्धविघ्ने समुत्पने अविज्ञाते मृतेऽहनि । एकादश्यां तु कर्त्तव्यं कृष्णपक्षे विशेषतः ॥ विशेषत इत्युक्त्या शुक्लपक्षैकादश्यामपि कार्यमिति हेमाद्रिः । मम तु प्रतिभाति विशेषत इतिकथनात्कृष्णैकादश्यामेव कर्त्तव्यम् । श्राद्धकर्मणि कृष्णपक्षस्य प्राशस्त्यात् । तथा च पराशरः देशान्तरगतो विप्रः प्रवासात्कालकारितात् । देहनाशमनुप्राप्तस्तिथिर्न ज्ञायते यदि ॥ १०५ कृष्णाष्टमी त्वमावास्या कृष्णा चैकादशी च या । उदकं पिण्डदानं च तत्र श्राद्धं च कारयेत् ॥ इति । दिनमासयोरज्ञाने तु भविष्यपुराणे दिनमेव न जानाति मासं वापि कदाचन । कार्य तेन अमाया वै श्राद्धं माघेऽथ मार्गके ॥ इति । यदा दिनमेव जानाति न मासं तदाषाढो माघो वा ग्राह्यः । यदा मासो न विज्ञातो विज्ञातं दिनमेव तु । तदा वाषाढके मासि माघे वा तद्दिनं भवेत् ॥ इति बृहस्पतिवचनात् । यदा देशान्तरे मृतस्य पुंसो म रणदिनमासौ न विजानाति किन्तु प्रस्थानदिनमासौ जानाति तदा तावेव प्रायौ । दिनमासौ न विज्ञातो परणस्य यदा पुनः । १४ श्रा० चं०
SR No.022248
Book TitleShraddh Chandrika
Original Sutra AuthorN/A
AuthorDivakar Bhatt
PublisherChowkhambha Sanskrit Series
Publication Year1934
Total Pages192
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy