________________
१०४ স্মাহুনিস্কায়া
मृसपुत्रलकत्रार्थी न कुर्यात्तिकतर्पणम् ।। तत्रैव पुराणे
पक्षयोरुभयो राजन् ! सप्तम्यां निशि सन्ध्ययोः ।
विद्यापुत्रकलत्रार्थी तिलान पञ्चसु वर्जयेत् ॥ अत्र प्रतिप्रसका कचित् । गर्ग:
कृष्णे भाद्रपदे मासि श्राद्धं प्रतिदिनं भवेत् ।
पितृणां प्रत्यहं कार्य निषिद्धाहेऽपि तर्पणम् ।। पृथ्वीचन्द्रोदये--
तीर्थे तिथिविशेषे च गङ्गायां प्रेतपक्षके ।
निषिद्धेऽपि दिने कुर्यात्तर्पणं तिलमिश्रितम् ॥ .. स्मृत्यर्थसारेऽपि
तिथितीविशेषेषु कार्य प्रेते च सर्वदा । इति । कात्यायन:
उपरागे पितुः श्राद्ध पातेऽमायां च सङ्क्रमे । निषेधेऽपि हि सर्वत्र तिलैस्तर्पणमाचरेत् ॥ इति । पत्र तिलालाभस्तत्र सुवर्णाचन्वितं तर्पणं कार्यमित्याह स्मृतिचन्द्रिकायांयोगियाज्ञवल्क्या ,
तिलानामप्यभावे तु सुवर्णरजतान्वितम् । तदभावे निषिश्चेत्तु दर्भमात्रेण वा पुनः ॥ इति । पतितपितुस्तु श्राद्धतर्पणादि नास्त्येव । वृद्धौ तीर्थे च सन्यस्ते ताते च पतिते सति ।
येभ्य एव पिता दद्याचेभ्यो दद्यात्स्वयं सुतः॥ इति षत्रिंशन्मतात् । सन्यस्ते जीवतीत्यर्थः । पते स. पस्ने तत्पमृत्येव कार्यम् ।