SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ नित्यतिलतर्पणे कालनिषेधः । सप्तम्यां भानुवारे च मातापित्रोर्मृतेऽहनि । तिलैयैस्तर्पणं कुर्यात्स भवेत्पितृघातकः ॥ इति वृद्धमनूक्तेः । नैव श्राद्धदिने कुर्यातिलैस्तु पितृतर्पणम् । इति सङ्ग्रहवचनाच्च । तीर्थश्राद्धे विशेषाभावादर्शन - र्पणं ज्ञेयम् । तद्विधिर्निर्णयसिन्धौ सङ्ग्रहे स्नात्वा तीरं समागत्य उपविश्य कुशासने | सन्तर्पयेत्पितॄन्सर्वान्स्नास्वा वस्त्रं च धारयेत् || अपसव्यं ततः कृत्वा सव्यं जान्वाच्यः भूतले । नामगोत्रस्वधाकारैर्द्वितीयान्तेन तर्पयेत् ॥ इति । तच्च स्नानोत्तरं सन्ध्यावन्दनं कृत्वैव कार्यम् । सन्ध्या हीनोऽशुचिर्नित्यमनईः सर्वकर्मसु । यदन्यत्कुरुते कर्म न तस्य फलभाग्भवेत् ॥ इति दक्षवचनात् । वृद्धिश्राद्धे सपिण्डे च प्रेतश्राद्धेऽनुमासिके । सम्बत्सरविमोके च न कुर्यातिकतर्पणम् ॥ श्राद्धाङ्गमित्यर्थः । अथ निश्पतिलतर्पणे कालनिषेधः । गार्ग्यः SUB . मानौ भौमे त्रयोदश्यां नन्दा भृगुमघासु च । पिण्डदानं मृदा स्नानं न कुर्यात्तिलतर्पणम् ॥ स्मृत्यर्थसारेऽपि विवाहव्रतचूडासु वर्षमर्षे तदर्धकम् । उत्तरार्ध तदेव | स्मृतिचद्रिकायां मरीचिः- सप्तम्यां रविवारे च गृहे जन्मदिने तथा । १०३
SR No.022248
Book TitleShraddh Chandrika
Original Sutra AuthorN/A
AuthorDivakar Bhatt
PublisherChowkhambha Sanskrit Series
Publication Year1934
Total Pages192
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy