SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ श्राद्धचन्द्रिकाया प्रत्यन्दे न भवेत्पूर्व परेऽहनि तिलोदकम् ॥ पक्षश्राद्ध हिरण्ये च अनुव्रज्य तिलोदकम् । इति । इदं च श्राद्धाङ्गतर्पण मित्रमेव ज्ञेयम् । न तु नित्यतर्पणस्यैव परेऽहन्युत्कर्ष इति । प्रत्यन्दाङ्गं तिलं दद्यादिति सहवचने ग्रहणात् । एतच्च यस्तर्पयति तान्विषः श्रादं कृत्वा परेऽहनि । पितरस्तेन तृप्यन्ति न चेत्कुप्यन्ति वै भृशम् ॥ इति गर्गोक्तः। परेधुः श्रादकन्मयों यो न तर्पयते पितृन । तस्य ते पितरः क्रुद्धाः शापं दवा व्रजन्ति हि ।। इति बृहन्नारयदीयवचनाच्चावश्यकम् । तच्च श्राद्धज्यव. गस्यैव परेयुः कार्यम् । प्रत्यब्दाङ्गं तिलं दद्यानिषिद्धेऽपि परेऽहनि । वगैकस्य क्षयो येषामन्येषां तु विवर्जयेत् ।। इति सहवचनात् । तिलं तिलोदकम् । सन्महालये तु परेपुरेव । सकुन्महालये वा स्यादष्टकास्वन्त एव हि । इति गर्गवाक्यात् । कपिल: मन्वादिषु युगायासु दर्शे सक्रमणेषु च । पौर्णमास्यां व्यतीपाते दधात्पूर्व तिलोदकम् ।। अर्घोदये गजच्छाये षष्ठ्यां चैव महालये । भरण्यां च मघाश्राद्धे पिण्डान्ते तर्पणं भवेत् ॥ इति । षष्ट्यां-कपिलषष्ठ्याम् । पिण्डान्ते श्राद्धसमासावित्यः यः । दर्शादौ श्राद्धाङ्गतर्पणस्य श्रादात्पूर्व विहितत्वामित्यतर्पणे. नैव प्रसङ्गसिद्धिः । पित्रादिवार्षिके तु नित्यतर्पणं तिलवजे करणीयम् ।
SR No.022248
Book TitleShraddh Chandrika
Original Sutra AuthorN/A
AuthorDivakar Bhatt
PublisherChowkhambha Sanskrit Series
Publication Year1934
Total Pages192
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy