________________
विवाहाद्युत्तरं निषेधमाह-
काष्र्णाजिनिः,
पिण्डदाने निषिद्धकालः |
विवाहवतचूडासु वर्षमर्धे तदर्धकम् ।
उत्तरार्ध तदेव । हेमाद्रौ ज्योतिः पराशरः-
विवाहे विहिते मासांस्त्यजेयुर्द्वादशैव हि । सपिण्डाः पिण्डनिर्वापं मौजीबन्धे षडेव हि । कचित्प्रतिप्रसवमाह तत्र स एव-
पिण्डाः ।
महालये गया श्राद्धे मातापित्रोः क्षयेऽहनि । यस्य कस्यापि मर्त्यस्य सपिण्डीकरणे तथा । कृतोदाहोऽपि कुर्वीत पिण्डनिर्वापणं सदा । इति । मदनरने स्मृत्यन्तरे --
पिण्डान्सपिण्डा नो दद्युः प्रेतपिण्डं विनात्र तु | पितृयज्ञे च यज्ञे च गयायां दनुरेव ते ।। इति । पितृयज्ञे = पिण्डपितृयज्ञे । यज्ञे= पित्र्येष्टयाम् । तेस
गर्गः
(१) वृखशातातपः,
----
पिण्डनिर्वापरहितं यतु श्राद्धं विधीयते । स्वधावाचनलोपोऽत्र विकिरश्व न लुप्यते ॥ अक्षय्यदक्षिणास्वस्ति सौमनस्यं यथास्थितम् ॥ इति । अथ तर्पणम् ।
१०१
पूर्व तिलोदकं दत्वा अमाश्राद्धं तु कारयेत् ।
(१) अतः पूर्वम- बृहस्पतिः -
तीर्थे सम्वत्सरे प्रेते पितृयोगे महालये । पिण्डदानं प्रकुर्वीत युगादिमरणीमधाः ॥ व इत्यर्थः । इत्यधिकं पुस्तकान्तरे ।