________________
१००
श्रीचन्द्रिकायाम्
इति परिभाषिता सन्ध्या न ग्राह्मा किन्तु मुख्यैव मार्त्तण्ड मण्डलास्तोदयकालरूपा । परिभाषिताया राज्यन्तर्गतत्वाद्वात्रिमि बेधेनैव तनिषेधसिद्धेः ।
मारस्ये
सायाह्नत्रिमुहूर्त्तः स्याच्छ्राद्धं तत्र न कारयेत् । राक्षसी नाम सा वेळा गर्हिता सर्वकर्मसु ॥ इति । अथ पिण्डदाने निषिद्धकालः । हेमाद्रो बृहत्पाराशर पुलस्स्यौयुगादिषु मघायां च विषुवत्ययने तथा । भरणीषु च कुर्वीत पिण्डनिर्वपणं नहि ॥ अयनद्वितये श्राद्धं विषुवद्दितये तथा । युगादिषु च सर्वासु पिण्डनिर्वपणाते ॥ स्मृतिरत्नावल्याम्
पुत्रे जाते व्यतीपाते ग्रहणे चन्द्रसूर्ययोः । श्राद्धं कुर्यात्प्रयत्नेन पिण्डनिर्वपणा ते ||
--
तथा-
मानौ भौमे त्रयोदश्यां नम्दाभृगुपधासु च । पिण्डदानं मृदा स्नानं न कुर्यात्तिलतर्पणम् ॥ अयं च मान्वादिषु पिण्डदाननिषेधस्तिथिवारनक्षत्रप्रयुक्त. काम्यश्राद्धविषयो बोध्यः । अत एवोक्तम् - विश्वरूपनिबन्धे,
तिथिवारप्रयुक्तो यो निषेधः समुदाहृतः । स श्राद्धे तनिमित्ते स्यानान्यश्राद्धे कदाचन ॥ इति । महाकयादौ रविवारादिष्वपि निर्वपेदित्यपि - अत्रि,
महालये क्षयाहे च दर्शे पुत्रस्य जन्मनि । तीर्थेऽपि निर्वपेत्पिण्डान् रविवारादिकेष्वपि ॥ इति ।