________________
९.८
श्राद्धचन्द्रिकायाम्
विर्दानं तत्करणं च स्वधाकारस्तदङ्गं मन्त्र इदमन्नमियादिस्तत्रैकब्राह्मणभोजन पर्याप्ताअनिष्पादन समर्थधान्य चतुर्गुणमिदमाममित्यादिरूपेणोहः कार्ये इति स्वधाकार इत्यस्यार्थः । धर्मप्रदीपे,
आमे हैमे तथा नित्ये नान्दीश्राद्धे तथैव च । व्यतीपातादिके श्राद्धे नियमान्परिवर्जयेत् ॥ इति । नियमान=ब्रह्मचर्यादीनित्यर्थः ।
अथ हेमश्राडम् |
तनिमितमाह - हेमाद्रौ संवर्तः,
पुत्रजन्मनि कुर्वीत श्राद्धं हेम्नैव बुद्धिमान् । न पक्केन न चामेन कल्याणान्यभिकामयन् ॥ मरीचिः -
आमानस्याप्यभावे तु श्राद्धं कुर्वीत बुद्धिमान् । धान्याच्चतुर्गुणनैव हिरण्येन सुरोचिषा || इति ।
बौधायनः,
सङ्क्रमेऽनद्विजाभावे प्रवासे पुत्रजन्मनि । हेमश्राद्धं सङ्ग्रहे च द्विजः शूद्रः सदाचरेत् ॥ इति । हेमात्र चतुर्गुणं देयं पूर्वोक्तवाक्यात् । स्मृत्यर्थसारे तु अ. ष्टगुणं चतुर्गुणं द्विगुणं समं चोक्तम्
हिरण्यमष्टगुणं चतुर्गुणं द्विगुणं समं वा सदक्षिणं त्यक्ता पूर्ववत्समापयेत् । इति ।
एतेषां पक्षाणां शक्ताशक्तभेदेन व्यवस्था । अत्रापि पिण्डदानं कार्यम् ।
गृहपाकात्समुद्धृत्य सक्तुभिः पायसेन वा । पिण्डदानं प्रकुर्वीत हेमश्राद्धे कृते सति ॥ इति भविष्योत्तरात् । शूद्रैरप्यामादिश्राद्धे श्रुताभपिण्डाः कार्या