SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ आमाइनिरूपणम् । किरादा त्वाममव । प्रदद्यात्तु द्विजातिभ्यः स्वल्पाल्पामपि दक्षिणाम् ॥ इति । - स्वशक्तित इत्यनेन द्विजपर्याप्तं समं लक्ष्यते । षन्नि शन्मते पिण्डदाने पक्षान्तरमुक्तम् आमश्रादं यदा कुर्यापिण्डदानं कथं भवेत् । . गृहपाकात्समुघृत्य सक्तुभिः पायसेन वा ॥ पिण्डान्दद्याद्यथालाभं तिलैः सह विमत्सरः । इति । प्रधानभूतागृहपकादोदनादुघृतेन तदेकदेशेनेति साधना. न्तरविधिः । स च पिण्डदानग्रहणातत्रैव भवति । अनौकरणवि. किरादौ त्वाममेव । आमश्रादपदः पिण्डांस्तथानोकरणं च यत् । तदद्यात्तत्र तेनैव यत्किश्चिञ्चाधिकं भवेत् ॥ इति प्रचेतोवचनात् । व्यासः-. आमश्रादं यदा कुर्याद्विधिज्ञः श्राद्धदस्तदा । हस्तेऽनौकरणं कुर्याद्राह्मणस्य विधानतः ॥ इति । एतदनिमत एव । निरनेः सदा तत्सत्वात् । आमश्रादे चावगाहापोशानप्राणाहुतिजुषप्रश्नतृप्तिप्रश्नादिकम् आमश्रादे हिरण्ये च नास्ति ब्राह्मणभोजनम् । __ तदङ्गानि निवर्तन्ते श्रादसिद्धिश्च जायते ॥ ... इति वचनाल्लुप्यते । अत्र यद्यपि "ऋचं नोहेत्" इति ऋग्रहो निषिद्धस्तथापि केषु चिन्मन्त्रेषूहमाह- . मरीचि, आवाहने स्वधाकारे मन्त्रा ऊया विसर्जने । अन्यकर्मण्यनूयाः स्युरामश्रादविधिः स्मृतः ॥ इति । आवाहने "पितृन्हविषे अत्तवे" इत्यत्र स्वीकव इत्यूहः । विसर्जने तन्मन्ने "तृप्ता यात"इत्यत्र तप्स्यतेति । स्वधा पिश्यह. १३श्रा० चं
SR No.022248
Book TitleShraddh Chandrika
Original Sutra AuthorN/A
AuthorDivakar Bhatt
PublisherChowkhambha Sanskrit Series
Publication Year1934
Total Pages192
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy