________________
आमश्राद्धनिरूपणम् ।
९५
अदैवं देवा विश्वेदेवास्तत्सम्बन्धिकर्मरहितम् । अधर्मकं - दातृभोक्तृनियमरहितम् । प्रत्यादिकश्राद्धात्सांवत्स रिक श्राद्धपर्यन्तम् । सङ्कल्पविधिनेयनेनावाहनाव्यादिनिवृतिः प्रतीयते । अन्वहं सोदकुम्भान्नदानाशक्तेनैकस्मिन्नेव दिने आमानेन तन्निष्क्रयेण वा कार्यम् |
अनं चैव स्वशक्त्या तु सख्यां कृत्वाग्दिकस्य तु । दातव्यं ब्राह्मणेभ्यस्तु यद्वा तनिष्क्रयं च यत् ॥ इति स्कान्दात् । अत्र चकारेणोदकुम्भपरामर्शः ।
अथामश्राद्धम् ।
तनिमित्तान्याह — कात्यायनः,
आपद्यनन्नौ तीर्थे च प्रवासे पुत्रजन्मनि ।
आमश्राद्धं प्रकुर्वीत भार्यारजसि सङ्क्रमे ॥ अत्राननाविति भावप्रधानो निर्देशः । अननित्व इयर्थः ।
निमित्तान्तरमाह-मरीचिः,
श्राद्धविघ्नं द्विजातीनामामश्राद्धं प्रकीर्त्तितम् । अमावास्यादिनियतं माससंवत्सराते ||
मासो=पासिकम् । संवत्सरः = सांवत्सरिकम् । ग्रहणे भोक्तुरसम्भवे प्रत्याब्दिकमप्यापान्नादिना कार्यम् । भोक्तुसम्भवे तु पकानेनैव कार्यम् ।
तथा च गोभिलः,
दर्शे रविग्रहे पित्रोः प्रत्याब्दिकमुपस्थितम् । अन्ननासम्भवे हेस्ना कुर्यादामेन वा सुतः ॥ इति । पित्रोरिदमुपलक्षणम् । तेनान्यस्यापि भवति । रविग्रह इति चन्द्रग्रहणस्याप्युपलक्षणम् ।
वृद्धप्रचेताः,
आपद्यनमौ तीर्थे च चन्द्रसूर्यग्रहे तथा ।