________________
प्रेतश्राद्धं वर्ज्याः ।
भुवाणि तु प्रकुर्वीत प्रमीताहनि सर्वदा ॥ इति । ध्रुवाणि नैपक्षिकादुत्तराणि तृतीयादिमासिकानि । जातूकर्णेsपि -
९ ३
ऊर्ध्वं त्रिपक्षाद्यच्छ्राद्धं मृतान्येव तद्भवेत् । आयस्तु कारयेद्दाहादाहिताग्रेर्द्विजन्मनः ।। इतेि । तथा च त्रैपक्षिक पर्यन्तान्याहिताग्नेर्दाहदिनमारभ्याना हिताप्रेर्मरणदिनमारभ्य श्राद्धानि कार्याणि तदुर्ध्वानि तुभयोरपि मरणदिनादेवेति सिद्धम् । इदं च श्राद्धं विघ्नवशात्स्वकाले अ. न्तरितं चेदुत्तरेण सह कार्यम् ।
मासिकं चोदकुम्भं च यद्यदन्तरितं भवेत् । तत्तदुत्तरसातन्त्र्यादनुष्ठेयं प्रचक्षते ॥
इति कण्ववचनात् । सातन्त्र्यं = समानतन्त्रता । हेमाद्री स्मृत्यन्तरे
आशिषो द्विगुणा दर्भा जपाशीः स्वस्तिवाचनम् । पितृशब्दश्च सम्बन्धः शर्मशब्दस्तथैव च ॥ पात्रालम्भोऽवगाहश्च उल्मुकोल्लेखनादिकम् । तृप्तिप्रश्नश्च विकिरः शेषप्रश्नस्तथैव च ॥ प्रदक्षिणा विसर्गश्च सीमान्तगमनं तथा । अष्टादश पदार्थास्तु प्रेतश्राद्धे विवर्जयेत् ॥ इति । गृह्यपरिशिष्टेऽपि -
प्रेतश्राद्धेषु सर्वेषु न स्वधा नाभिरम्यताम् । स्वस्त्यस्तु विसृजेदेवं सकृत्प्रणववर्जितम् ॥
तथा
अनुद्रकमधूपं च गन्धमाल्यविवर्जितम् । नवश्राद्धममन्त्रं च पिण्डोदकविवर्जितम् ॥ अनुदकमनर्घ्यम् । पिण्डोदकमवनेजनरूपं तेन शून्य