________________
९२
श्राद्धचन्द्रिकायाम्दीयेऽहनि । श्राद्धद्वयं प्रकुर्वीत आदावेकं मले कार्य तदेव पुन: गुदमासेऽपि कार्यमित्यर्थः । उनमासिकादिकालमाहपराशरमाधवे गालवा,
उनषाण्मासिकं षष्ठे मासेऽर्धे न्यूनमासिकम् ।
त्रैपक्षिकं त्रिपक्षे स्यादनान्दं द्वादशो तथा ॥ इति । कालान्तरमाहश्लोकगौतमः,
एकद्वित्रिदिनैरूनैत्रिभागेनोन एव वा । श्रादान्यूनान्दिकादीनि कुर्यादित्याह गौतमः ॥ अत्र सप्तम्यां मृतस्यैकाहन्यूनपक्षे पञ्चम्यां बहन्यूनपक्षे चतुया व्यहन्यूनपक्षे तु तृतीयायामनमासिकादि कार्यम् । षष्ट्यां मासपुः । एवं च सति
एकाहेन तु षण्मासा यदा स्युरपिवा त्रिभिः ।
न्यूनाः संवत्सरश्चैव स्यातां पूर्वधुरेव ते ॥ इत्यूनषाण्मासिकादिश्राद्धकालविधायकवचनं सङ्गच्छते । यतु हेमाद्रिपरिगृहीतं पैठीनसिवचनम् -
पाण्मासिकाब्दिके श्रादे स्याता पूर्वेधुरेव ते । मासिकानि स्वकीये तु दिवसे द्वादशेऽपि वा ॥ इति, तन्माससमाः पूर्वेधुरित्येवंपरमुन्नेयम् । विवेचनकारास्तु एकाइन्यूनपक्षेऽस्मादेव वचनान्मृताहपूर्वतियावेवोनमासिकादि कर्तव्यमित्यूचुः । उनमासिकस्य द्वादशाहेऽपि काळ इत्याहगोभिला,
मरणावादमाहे स्यान्मास्यूने वोनमासिकम् । इति । षोडशश्राद्धेवाहितामविशेष:छन्दोगपरिशिष्टे,
श्राद्धमनिमतः कार्य दाहादेकादशेऽहनि