________________
श्राडचन्द्रिकायाम्लौगाक्षिरपि
मासादौ मासिकं प्रोक्तमान्दिकं वत्सरे गते ।
आधमेकादशे कार्यमधिके त्वधिकं भवेत् ॥ इति । ननु शुचिना कर्म कर्तव्यमितिविधानादाशौचाविमुक्तानां क्षत्रियादीनामेकादशेऽहि कथं श्राद्धाधिकार इति चेत् , न ।
आय श्रादमशुद्धोऽपि कुर्यादेकादशेऽहनि। . कर्तुंस्तात्कालिकी शुद्धिरशुद्धः पुनरेव सः ॥ एकादशेऽह्नि यच्छाद्धं तत्सामान्यमुदाहृतम् ।
सर्वेषामेव वर्णानां सूतकं तु पृथक्पृथक् ॥ (१)इति शङ्खपैठीनसिवचनाभ्यां कर्नुस्तात्कालिकशुदेर भिधानात् । एवं ब्राह्मणानामपि पित्राशौचमध्ये द्वितीयादिदिने पुत्रस्य मातृमरणप्रयुक्ताधिकपक्षिण्याशौचे तथा दशमदिनरात्रिराज्यत्ययामादिष्वाशौचान्तरपातेन प्रासयहव्यहाद्याशोचे सत्यपि भवत्याचं श्राद्धम् । एवं वृषोत्सर्गशय्यादानायपि भवत्येव ।
सूतके मृतके चैव द्वितीयं मृतकं यदि । पिण्डदानं प्रकुर्वीत वृषोत्सगै तथैव च ॥ न हन्यात्सूतकं कर्म द्वादशैकादशाहिकम् । शुद्धो वा यदि वाशुद्धः कुर्यादेवाविचारयन् ॥ इति स्मृत्यन्तरात् । मदमरत्नदेवयाज्ञिकादयोऽप्येवम् । द्वादशाहिकमिति तु पददानाभिप्रायेण न तु सपिण्डीक. रणाभिप्रायेण । पददानस्य द्वादशाहे विशेषतोऽभिधाना(२)।
(१) अत्र-इति हेमाद्रिविज्ञानेश्वरधृतवचनाभ्यामशुदो ल. त्यामपि प्रवृत्तिसम्भवात् इति वि० पु० पा० । (२) अतः परम्
देये पितृणां श्राद्धे तु आशौचं जायते यदा ।
आशौचे तु व्यतिक्रान्ते तेभ्यः भादं प्रदीयते ॥ । इति ऋष्यशोणाशौचन्यपगमे पितृश्राधमात्रस्यापादितत्वात् ।