SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ एकोद्दिष्टश्राद्धनिरूणम् । ८९ न्युपक्रम्य चतुर्ध्वप्यनौकरणादीनां साम्यतोक्तेः । तत्त्रिविधं नवनवमिश्रपुराणभेदात् । तथाचाश्वलायनः Caus नवश्राद्धं दशाहानि नवमिश्रं तु षदऋतून् । अतः परं पुराणं वै त्रिविधं श्राद्धमुच्यते ॥ इति । श्राद्धमेकोद्दिष्टम् । तत्र नवश्राद्धान्युक्तानि वृद्धवशिष्टेन, - प्रथमेऽह्नि तृतीये च सप्तमे नत्रमे तथा । एकादशे पश्चमे स्युर्नवश्राद्धानि षट् सदा ॥ इति । ब्रह्माण्डपुराणे - नवश्राद्धानि कुर्वीत प्रेतोद्देशेन यत्रतः । एकोद्दिष्टविधानेन नान्यथा तु कदाचन ॥ इति । नवमिश्राण्याह आश्वलायनः, नवमिश्रं षडुत्तरमिति । · षण्णां नवश्राद्धानामुत्तरं क्रियमाणानि षोडशश्राद्धानि नवमिश्राणीत्यर्थः । तान्याह हेमाद्रीजातूकर्ण्यः, द्वादश प्रतिमास्यानि आयषाण्मासिके तथा । त्रै पक्षिकान्दिके चेति श्राद्धान्येतानि षोडश || आयमूनमासिकम् । षाण्मासिकमूनषाण्मासिकम् । ए मान्दिकपदेनोनाब्दिकं ज्ञेयम् । द्वादशानामपि पृथगुपादानात् । एतेषां कालमाह याज्ञवल्क्यः, मृतेऽहनि तु कर्तव्यं प्रतिमासं तु वत्सरम् । प्रतिसम्वत्सरं चैवमाद्यमेकादशेऽहनि ॥ आद्यमासिकं मृततिथौ प्राप्तं तदेकादशेऽकि कार्यमित्पर्थः । १२ भा० चं०
SR No.022248
Book TitleShraddh Chandrika
Original Sutra AuthorN/A
AuthorDivakar Bhatt
PublisherChowkhambha Sanskrit Series
Publication Year1934
Total Pages192
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy