SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ श्राद्धचन्द्रिकायाम् इति भृगूक्तेः । नभो वाथ नभस्यो वा मळमासो यदा भवेत् । समः पितृपक्षः स्यादन्यत्रैव तु पञ्चमः ॥ इति नागरखण्डाच्च । अत्र पञ्चमत्वसप्तमत्वे आषाढीतो बोध्ये | आश्विनशुक्लप्रतिपदि दौहित्रो मातामह श्राद्धं कुर्वीतेत्युक्तं हेमाद्री स्मृतौ ८८ जातमात्रोऽपि दौहित्रो विद्यमानेऽपि मातुले । कुर्यान्मातामह श्राद्धं प्रतिपद्याश्विने सिते ॥ इति । इदं श्राद्धमनुपनीतोऽपि कुर्यात् अपिपदस्वारस्यात् । शि टाचारोऽप्येवमेव । इदं च जीवत्पितृक एवं करोति तत्र मूलं न जानीमः । श्राद्धे पिण्डदानावश्यकतयतश्च सपिण्डकमेव कार्यमिति सङ्क्षेपः । इति श्रीभारद्वाज महादेव भट्टात्मज दिवाकरविरचितायां श्राद्धचन्द्रिकायां महालय श्राद्धानि । अथैकोद्दिष्टम् । तत्स्वरूपमुक्तं कण्वेन, एकमुद्दिश्य यच्छ्राद्धमेकोद्दिष्टं प्रकीर्त्तितम् । इति । तदितिकर्त्तव्यतोक्ता याज्ञवल्क्येन, एकोद्दिष्टं दैवहीनमेका ध्यैकपवित्रकम् । आवाहनाम्नौकरणरहितं ह्यापसव्यवत् ॥ उपतिष्ठतामक्षय्यस्थाने विप्रविसर्जने । अभिरम्यतामिति वदेवययुस्तेऽभिरताः स्पह || इति । आश्वलायनानां त्वेकोद्दिष्टेऽप्यनौकरणादयः पदार्थों भव न्त्येव । तद्गृह्यसूत्रे चतुर्थाध्याये " अथातः पार्वण श्राद्धे काम्य आभ्युदयिक एकोद्दिष्टे वा ब्राह्मणा" इति चत्वारि श्राद्धा
SR No.022248
Book TitleShraddh Chandrika
Original Sutra AuthorN/A
AuthorDivakar Bhatt
PublisherChowkhambha Sanskrit Series
Publication Year1934
Total Pages192
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy