________________
महालये चतुर्दशी श्राद्धनिरूपणम् । ૮૯
इति हेमाद्री स्मृतेः । मघायुतत्रयोदश्यां ससन्तानेन पुंसा सपिण्डकं श्राद्धं न कार्यम् ।
मघायुक्तत्रयोदश्यां पिण्डनिर्वपणं द्विजः । ससन्तानो नैव कुर्यान्नित्यं ते कवयो विदुः ॥ इतिबृहत्पराशरवचनात् । अस्मित्रयोदशी श्राद्धे "पितरो यत्र पूज्यन्ते" इतिधौम्य वाक्यान्मातामह पार्वणमपि कार्यम् ।
काष्र्णाजिनिरपि -
श्राद्धं न चैकवर्गस्य त्रयोदश्यामुपक्रमेत् ।
न तृप्तास्तत्र ये यस्य प्रजां हिंसन्ति तस्य ते ॥ तेऽग्रजामित्यपि कचित्पाठः । अत्र हेमाद्रिधौम्य वाक्येन मातामहप्राप्तौ सत्यामपि अयं निषेधो भ्रममाप्तैकपावणस्येत्याह । अन्ये तु जीवन्मातामहवर्गकस्यैकवर्गयजनप्राप्तेरयं निषेध इत्यू - चुः । श्रीमातामहास्तु येषां सूत्रे मातामहा नाम्नातास्तान्प्रति सामान्यतः प्राप्तस्यैकपार्वणस्य निषेधार्थमित्याहुः । मया तूच्यते पराशरमाधवे स्मृत्यन्तरे
इच्छेत्रयोदशीश्राद्धं पुत्रवान्यः सुतायुषोः ।
एकस्यैव तु नो दद्यात्पार्वणं तु समाचरेत् ॥ इति । अस्यायमर्थः । यः पुत्रवान्सुतायुषोरभिवृद्धिमिच्छेत्स एकस्यैव त्रयोदशीश्राद्धं नो दद्यात्किन्तु पार्वण श्राद्धं समाचरेत् । पर्वणि भवं पार्वणं षट्दैवत्यामित्यर्थः । अनेन वचनेन सुतायुषो रभिवृद्धिकामनापक्षे एकपार्वणप्राप्तेरयं निषेध इति ।
अथ चतुर्दशीश्राद्धम् ।
हेमाद्रौ याज्ञवल्क्यःप्रतित्प्रभृतिष्वेकां वर्जयित्वा चतुर्दशीम् । शस्त्रेण तु हता ये वै तेभ्यस्तत्र प्रदीयते ॥