________________
ઢ
श्राद्धचन्द्रिकायाम्
तदध्यक्षयमेव स्याद्वर्षासु च मघासु च ॥ इति ।
याज्ञवल्क्यः
यद्ददाति गयास्थय सर्वमानन्त्यमश्नुते । तथा वर्षात्रयोदश्यां मघासु च विशेषतः ॥ इति । विष्णुधर्मोत्तरे -
----
प्रोष्ठपद्यामतीतायां मघायुक्तां त्रयोदशीम् ।
प्राप्य श्राद्धं प्रकर्त्तव्यं मधुना पायसेन वा ॥ अत्र यद्यपि वचनेषु मघायुतैव त्रयोदशी श्राद्धकालत्वेन प्रतीयते तथापि --
प्रौपद्यामतीतायां तथा कृष्णा त्रयोदशी ।
इत्यादिमघापदर हितवचनेभ्यः केवलापि तथा भवति द्वयोर्योगे तु फलाधिक्यमात्रम् । तथाच - स्मृतिचन्द्रिकायां स्मृत्यन्तरे,
त्रयोदशी भाद्रपदी कृष्णा मुख्या पितृप्रिया । तृप्यन्ति पितरस्तस्यां स्वयं पञ्चशतं समाः ॥ मघायुतायां तस्यां तु जलौघैरपि तोषिताः । तृप्यन्ति पितरस्तद्वद्वर्षाणामयुतायुतम् ॥ इति । अपत्यनुकल्पः । एतेन मघायुतैव त्रयोदशी श्राद्धकाळो न शुद्ध त्रयोदशी नापि केवलं मघेति शुलपाणिव्याख्यानमपास्तम् । आश्विनेऽघिमासे सति मघात्रयोदशीयोगोऽधिमासि चेद्भवेत्तदा तत्रापि श्राद्धं कार्यम् ।
मघा त्रयोदशी श्राद्धं प्रत्युपस्थितिहेतुकम् । अनन्यगतिकत्वेन कर्त्तव्यं स्यान्मलिम्लुचे ॥
इति काठकगृह्यात् । मघाश्राद्धमविभक्ता अपि पृथक्
कुर्युः ।
विभक्ता वाऽविभक्ता वा कुर्युः श्राद्धं पृथक पृथक् । मघासु च ततोऽन्यत्र नाधिकारः पृथग्विना ॥