SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ महालये त्रयोदशीश्राडानरूपणम् । ८३ इतिगालवोक्तेः । महालये भरणीश्राद्धं महाफलम् । भरणी पितृपक्षे तु महती परिकीर्तिता । अस्यां श्राद्धं कृतं येन स गयाश्राद्धकद्भवेत् ॥ इति मात्स्यात् । अत्र नवम्यामष्टन्वकेत्युक्तं पाक् । अस्यां मातृश्रादमतितरामावश्यकम् । .. सर्वासामेव मातृणां श्राद्धं कन्यागते रवी ।। नवम्यां हि प्रदातव्यं ब्रह्मलब्धवरा यतः ॥ इति स्मृतेः । सर्वासामिति कथनात्सपत्नमातुरपि कार्यम् । इदं जीवरिपतृकेणापि मृतमातृकण कार्यम् ।। अन्वष्टक्यं गयाप्राप्तौ सयां यच्च मृतेऽहनि । मातुः श्राद्धं मुतः कुर्यात्पितयपि च जीवति ॥ इति मैत्रायणीयपरिशिष्टात् । अन्वष्टक्यपहालयात. गतनवम्यां कर्तव्यत्वेन बोधितं मातृश्राद्धं न तु "अपरेधुरन्वष्ट. क्यम्" इसाश्वलायनायुक्तम् । तस्य जीवस्पितृकस्य निषेध. दर्शनात् । शूद्रानुपेतयोरप्यत्राधिकाराच्च । मातृद्वित्वे बहुत्वे वा श्राद्धप्रकारमाहगालव, अनेका मातरो यस्य श्राद्ध चापरपक्षिके । अयंदानं पृथक् कुपिण्डमेकं तु निर्वपेत् ।। द्वयोबहीनां च नामैक्ये द्विवचनबहुवचनान्तं चेति । अदः श्राद्धं सधवाया एव मातुमरणे कार्यमिति केचित् । तत्तुच्छम् । वचनाताहशार्थप्रतीत्यभावात् । युक्तं तु विधवाया अपीति । यतु पठन्ति श्रादं नवम्यां कुर्यात्तु मृते भर्तरि लुप्यते । इति वचस्तत्राकरचिन्त्यः । अथात्रैव त्रयोदशीश्रादम् । मनुः, यत्किचिम्मधुना मिश्रं प्रदद्यात्तु त्रयोदशीम् ।
SR No.022248
Book TitleShraddh Chandrika
Original Sutra AuthorN/A
AuthorDivakar Bhatt
PublisherChowkhambha Sanskrit Series
Publication Year1934
Total Pages192
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy