SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ 婚 ब्रह्मपुराणे - प्रायोऽनशनशस्त्राग्निविषोद्धन्धनिनां तथा । चतुर्दश्यां भवेच्छ्राद्धं तृप्त्यर्थमिति निश्चयः ॥ इति । श्राद्धचन्द्रिकायाम् प्रायो===महापथगमनम् । मशीचेः विषशस्त्रश्वापदा हितिर्यग्ब्राह्मणघातिनाम् । चतुर्दश्यां क्रिया कार्या अन्येषां तु विगर्हिता || इति । ब्राह्मणाद्वातो यस्यासौ ब्राह्मणघाती तस्येत्यर्थः । “ये च वै ब्राह्मणैईता" इति ब्रह्मपुराणात् । क्रिया= श्राद्धम् । अ न्येषामशस्त्रादिहतानाम् । हेमाद्री नागरखण्डे - अपमृत्युर्भवेद्येषां शखमृत्युरथापि वा । उपसर्गसृतानां च विषमृत्युमुपेयुषाम् । वह्निना च प्रदग्धानां जलमृत्युमुपेयुषाम् ॥ सर्पव्याघ्रतानां च शृङ्गैरुद्बन्धनैरपि । श्राद्धं तेषां प्रकर्त्तव्यं चतुर्दश्यां नराधिप ! ॥ इति । मार्कण्डेयपुराणे युवानः पितरो यस्य मृताः शस्त्रेण वा हताः । तेन कार्ये चतुर्दश्यां तेषां तृप्तिमभीपना || इति । प्रचेताः -- वृक्षरोहण लोहाद्यौर्वज्वालाविषादिभिः । नखदंष्ट्रिचिपन्ना ये तेषां शस्ता चतुर्दशी ॥ इति । एवश्व सति पतिमरणनिमित्तं वह्नौ प्रविष्टस्त्रीणामसाध्यव्याध्यभिभूतानां च भृग्वग्न्यम्बुभिर्मृतानामिह श्राद्धं न भवति । प्रायोऽनशनाभ्यां मृतानां तादृशानामपि भवस्येव पूर्वोक्तवा क्यातू । इदं चै कोद्दिष्टमेव कार्य न पार्वणम् ।
SR No.022248
Book TitleShraddh Chandrika
Original Sutra AuthorN/A
AuthorDivakar Bhatt
PublisherChowkhambha Sanskrit Series
Publication Year1934
Total Pages192
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy