________________
भवन्त्यपि पुराभवा विवृतयः कतीहाऽतुला जनोपकृतये कृताः कृतमतिव्रजः पूर्वजैः । मयेयमभिधावती नवगुणाऽपि भद्रङ्करो - दयाऽनवमतीनपि प्रमुदमानयत्वायताम्
यदीह कति नो गुणा अवगुणा अवश्यन्तया भवेयुरिति तत्कृते किमपि नैव भीतिं भजे । यतः सपदि सज्जनाः प्रकृतिपारवश्यात्स्वयं समाधिविहितादरा जगति किं वसन्त्यद्य नो ? साङ्गलीनगरे याम्यभरतार्धविभूषणे । क्रमाल्लब्धात्मलाभेयं लोकशास्त्रानुसारिणी सैषा त्रिपुरुषानुका व्याख्या भद्रङ्करोदया । ज्ञानसारजुषां भूयात् फलवत्युपयोगतः ऐकादश्यां बुधे मौन्यां खाऽक्षिखेक्षणवत्सरे । पूर्णा यदनुभावेन तस्मै पूर्णात्मने नमः
-
॥ ५॥
11 9 11.
॥ ७ ॥
11 2 11
॥ ९ ॥