________________
॥ प्रशस्तिः
॥
उद्धर्ता नैकतीर्थान् भवत इव जनान् सद्वचःसम्प्रयोगाद् बाल्यादा ब्रह्मसेवाऽवचितशुभयशोराशिराशान्तगीतः । शास्त्रत्राताऽवगाहाऽऽहितहितमतिमृद् भूरिसत्कर्मधर्मा सम्राड् यः शासनादिः समभवदिह स श्रीयुतो नेमिसूरिः ॥ १॥ शिष्यस्तस्य प्रशान्ताकृतिरुदधिरिवौदार्यगाम्भीर्ययोगात् सूरि विज्ञाननामा समयशुभवचःसारविज्ञानवित्तः । तच्छिष्यः शास्त्रवार्ताऽमलसलिलमहासिन्धुरिद्धो यशोभिः कस्तूर प्राकृतज्ञावलिविपुलमतिः सूरिसूरप्रतापी ॥२॥ तच्छिष्यौषधीशोऽमृततुलितगिरा पोषयन्नोषधीन् यो भव्यान् ख्यातः प्रवक्ता कविकनकमहामाल्यरत्नोरुकीर्तिः । पन्यासाकाशसूरो गुणिगणमहितः संहितः सद्गुणौधै रत्नत्रय्यायमूर्ति जयति भुवि यशोभद्रनामा गुरु में ॥ ३ ॥
तस्याऽतुल्याऽनुकम्पाफलमिदमखिलं यन्मया ज्ञानसारः सान्वर्थो ग्रन्थसारोऽशुभमतिदमनो वाचनातत्पराणाम् । शिष्यं सूर्योदयाख्यं दयितुमुपकृतिं कर्तुमल्पक्षमाणां व्याख्यातो गूढभावो भवजलधितरीकल्प इत्यादरेण
॥४॥