SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ भद्रङ्करोदयाख्यव्याख्याविभूषिते क्रियाशून्यं च यज्ज्ञानं ज्ञानशून्या च या क्रिया। अनयोरन्तरं ज्ञेयं भानुखद्योतयोरित्र ॥११॥ क्रिय शून्यमित्यादि । यत्-यादृशम् , ज्ञानम्-साधुविशेषेण ज्ञानसारपरिशीलनादिनोपार्जित ज्ञानसारात्मकं सम्यग्ज्ञानम् , क्रिया. शून्यम्-क्रिययोक्तपकारया शून्यं रहितम् , केवलं ज्ञानमित्यर्थः । चः पुनरर्थे । द्वितीयश्च कारः समुच्चये। या-पादृशी साधुविशेषेणाऽनुष्ठीयमाना, क्रिया-धर्मक्रिया, ज्ञानशून्या-ज्ञानेन ज्ञानसाररूपेण शून्या रहिता, केवला क्रियेत्यर्थः । अनयो:-केवलज्ञानकेवलक्रिययोः, भानुखद्योतयोरिब-भानुः सूर्यः खद्योतस्तमसि वृक्षादौ स्वल्पप्रकाशकः कीटविशेषस्तयो रिच, अन्तरम्-तारतम्यम् , ज्ञेयम्-बोध्यम् । यथा खद्योतमपेक्ष्याऽनन्तगुणाधिकप्रकाशात्मा सूर्यस्तथा क्रियामपेक्ष्य ज्ञानं सुबहुतममाहात्म्य सम्पन्नम् , क्रियया हि देशतोनिवृत्तिरित्यल्पं फलं खद्योतपकाशवत् , ज्ञानेन तु सर्वतो निवृत्तिरिति महाफलं सूर्यप्रकाशवदिति ज्ञानगेव गरीय इति तदवश्यमाराधनीयमितिभावः यदुक्तम्-" न हि ज्ञानेन सहशं पवित्रमिह विद्यते" इति ॥ ११ ॥ तदेवं ज्ञानमवश्योपादेयमिति शिष्यमुपदिशन्नुपसंहरतिचारित्रं विरतिः पूर्णा ज्ञानस्योत्कर्ष एव हि । ज्ञानाऽद्वैतनये दृष्टि दया तद्योगसिद्धये ॥ १२ ॥ चारित्रमित्यादि। पूर्णा-अविकला, सर्वसावद्यत इत्यर्थः । "विरति:-निवृत्तिः, चारित्रम्-चारित्रमित्युच्यते । तच्च, ज्ञानस्य
SR No.022247
Book TitleGyansara
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherJain SMP Sangh
Publication Year1964
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy