________________
ज्ञानसारे फल-स्तुतिः
ज्ञानपूतां परेऽप्याहुः क्रियां हेमधटोपमाम् । युक्तं तदपि तद्भावं न यद्भग्नाऽपि सोज्झति ॥१०॥
ज्ञानपूतामित्यादि । परे-बौद्धादयो दर्शनान्तरीया अपि, अपिना-स्वमतसमुच्चयः । ज्ञानपूताम्-ज्ञानेन ज्ञानसाहित्येन हेतुना पूता ज्ञाननिरपेक्षक्रियातोऽधिकविशुद्धा, ज्ञानपुरस्सरमनुठीयमानेत्यर्थः । ताम् , क्रियाम्-धर्मक्रियां तपःसंयमादिरूपाम् , हेमघटोपमाम्-हेम सुवर्णं तस्य तद्विकारत्वात्तसम्बन्धी यो घटस्तेन उपमा सादृश्यं यस्या स्तां हेमघटतुल्याम् , आहुः-प्रति-- पादयन्ति, तदपि-ज्ञानपूतक्रियाया हेमघटोपमाऽपि, युक्तम्-घट. मानकम् , जिज्ञासानिवृत्तये स्वयं धटयन्नाह-तभावमित्यादि । सा-ज्ञानपूता क्रिया, भग्ना-कथञ्चित्पतिताऽपि, घटपक्षे द्विधाभिन्नोऽपि, अपिना भग्नस्य भावापकर्षः सूच्यते, अत्र तु ज्ञानमाहात्म्यान भावाऽपकर्ष इत्यविरोधः । तद्भावम्-तस्या ज्ञानपूत-- क्रियाया यो भावो माहात्म्यं तम्, घटपक्षे मूल्यम् , न-नैव, उज्झति-त्यजति । यथा हेमघटो भग्नोऽपि हेममूल्यं न त्यजति सन्धेयश्च मवति, तथा ज्ञानपूता क्रिया पतिताऽपि कल्पित्वात्मकं स्वमाहात्म्यं न त्यजति । कोटाकोटिसागरोपमाभ्यन्तरस्थितिकमेव बन्धं करोति नत्वधिकस्थितिकम् , ज्ञानवशात्पुनः शुद्धतामेति च। तदेवं क्रियाया ज्ञानसाहाय्यार्थं ज्ञानसारोऽवश्योपादेय इत्याशयः ॥ १० ॥
तदेवं क्रियातो ज्ञानस्याऽधिकं माहात्म्यमिति शिष्यं प्रबोधयन्नाह