________________
ज्ञानसारे ध्यानाऽष्टकम्
३११
,
णाssपत्तिरारोपः समापत्तिरित्येवमुच्यत इति यावत् । परमात्मनस्वगुणानां च निजात्मनि तादात्म्येन सन्निधानबलादवभासः समापतिः । सा च ध्यानान्निश्वले निर्मले चाऽऽत्मनि भवतीत्याशयः । यदुक्तम्- -" मणेरिवाऽमिजातस्य क्षीणवृत्ते रसंशयम् । तात्स्थ्याचदञ्जनत्वाच्च समापत्तिः प्रकीर्तिते "ति ॥ ३ ॥
अथ शिष्य जिज्ञासा निवृत्तये समापत्तेः फलमाहआपत्तिश्च ततः पुण्यतीर्थ कृत्कर्मबन्धतः । तद्भावाऽभिमुखत्वेन संपत्तिश्च क्रमाद् भवेत् ॥ ४ ॥ आपत्तिश्चेत्यादि । ततः - उक्तरूपायाः समापत्ते हेतोः, पुण्यत तीर्थ कृतकर्मबन्धः - पुण्यं शुभानुबन्धितया पुण्यप्रकृतिकं यत्तीर्थं तरन्त्यनेनेति चतुर्विधसङ्कं करोतीति प्रवर्त्तयतीति स तस्य तीर्थकृतस्तत्फलत्वात्तत्सम्बन्धि कर्म तस्य बन्ध आत्मप्रदेशेषु श्लेषस्तदपेक्षयेति यलोपे पञ्चमी । यद्वा पुण्यतीर्थं धर्मचक्रं करोति प्रवर्त्तयतीति स तीर्थङ्करेतिप्रसिद्धस्तस्येत्येवं व्याख्येयम् । आपत्ति :- आपत्याख्यं फलम् । ध्यानलभ्यसमापत्ते रापत्त्याख्यपुण्यतीर्थ कृन्नामकर्मबन्धरूपं प्रथमं फलमिति यावत् । क्रमात् - अनन्तरम्, तद्भावाभिमुखत्वेन तस्य तीर्थकृतो यो भावोऽति. शमादिस्तदभिमुखत्वेन सान्निध्येन, संपत्तिः - असाधारणाऽलौकिकसमृद्धिरूपं संपत्त्याख्यं फलम् भवेत् - जायेत । च द्वयं समुच्चये । तीर्थकृन्नामकर्मण्युदिते दुर्लभतीर्थ कृदतिशय लाभात्मकतीर्थ कृत्त्वमाप्यत इति भावः । एवञ्चाऽऽपतिसंपत्तिफलत्वादेव तादृशध्यानस्य
1
-