________________
२४८
भद्रकरोदयाख्यव्याख्याविभूषिते माह तत्रेत्यादि । तत्र-आत्म साक्षिकैन सद्धर्मसिद्धिरित्यत्र, प्रसन्न चन्द्रः-तदाख्यो नृपः, भरत:-तदाख्यः प्रथमश्चक्री, च द्वयं समुच्चये । निदर्शने-उदाहरणे । प्रसन्नचन्द्रस्य हि लोकदृष्टया वेषमुद्रादिभिर्वाह्य चारित्रैर्धर्मस्थत्वेऽपि दुर्ध्यानवशादशुभकर्मबन्धः, आत्मदृष्टया सद्धर्मसिद्धरभावात् । भरतस्य च लोकदृष्टया विविधविषयोपभोगपरायणत्वेन बाह्य चारित्राऽभावादधर्मस्थत्वेऽपि निजात्मदृष्टयाऽभेदपरिणत्यात्मक सद्धर्मसिद्धेः कैवल्य मित्यन्वयव्यतिरेकाभ्यां सद्धर्मसिद्धिरात्मसाक्षिकैवेति मुनेरात्मैवाऽनुसरणीयो न लोकः । आत्मानुसरणेन चेल्लोकोऽप्यनुसृतो भवति चेत्सुवर्णे सौरभमिति सुष्ठूतं " लोकसंज्ञारतो न स्यादि "ति भावः ॥ ७ ॥
शिष्यस्य रुचिर्यथा स्यादिति लोकसंज्ञात्यागफलं वर्णयन्नुपसंहरति
लोकसंज्ञोज्झितः साधुः परब्रह्मसमाधिमान् । सुख मास्ते गतद्रोहममतामत्सरज्वरः ॥८॥ इति महामहोपाध्याय श्रीयशोविजयोपाध्यायविरचिते ज्ञानसारे लोकसंज्ञात्यागाऽष्टकं नाम त्रयोविंशतितमाष्टकम् ॥ २३ ॥
लोकसंज्ञोज्झित इत्यादि। लोकसंज्ञोज्झित:-लोकसंज्ञोक्तप्रकारा, तयोज्झितो विरहितः, लोकसंज्ञाविरत इत्यर्थः । अत एक, गतद्रोहममतामत्सरज्वर:-गतो विनष्टः, द्रोहः परघातादिचिन्ता, ममताऽनित्य दारागारादौ स्वत्वबुद्धिः, मत्सरोऽन्यशुभद्वेषस्तेषां