SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ भातसारे लोकसंज्ञात्यागाऽष्टकम् २४७ आत्मसाक्षिकसद्ध मसिद्धौ कि लोकयात्रया ? तत्र प्रसन्नचन्द्रश्च भरतश्च निदर्शने ॥७॥ आत्मेत्यादि । आत्ममाक्षिकसद्धर्मसिद्धौ-आत्मैव न तु. लोकः साक्षी स्थेयो यत्र सा तादृशी, सा चाऽसौ सतो निर्दुष्टस्य श्रेयः साधनभूतस्य धर्मस्य लक्षणया धर्माचरणस्य सिद्धि निष्पत्तिश्च सा, तस्याम् , तद्विषय इत्यर्थः । सद्धर्मस्य सिद्धावात्मैव साक्षी न लोकः । लोको हि बहिर्व्यवहारमात्रं ज्ञातुं प्रभवति । बहिर्व्यवहारश्वाऽऽभ्यम्तरिकशुद्धभावाऽनुपाणित एवेति न नियमः । लोकदृष्टा सद्ध्यानादिमतोऽपि वस्तुतोऽन्तर आतरौद्रादिध्यानसम्भवादम्भस्थाऽपि सम्भवाच्च । एवञ्च सद्धर्मसिद्धिरात्मसाक्षिकैव । आत्मैव हितस्य तत्सद्धर्माचरणं नवेति परमार्थतो जानाति नत्वन्यः । अत एव, लोकयात्रया-लोकस्य यात्रा सम्भूय गमनम् , बहूनां सहशाचार इत्यर्थः । लोकव्यवहार इति यावत् । तया तदनुसरणेन, लोकसंज्ञारत्येति सारार्थः । किमिति क्षेपे । न किमपि प्रयोजनमित्यर्थः । तया कदापि सद्धर्मसिद्धेरभावात् । लो कानुसरणेन लोकरञ्जनेऽपि धर्मो न सिध्यति । नह्ययं धर्मात्मेति लोकप्रशंसया धर्मसिद्धिः । दम्भिनां दुध्यांनिनामपि च वेषलिकादिमि लोके पूजालाभाद्धर्मात्म भावगानाच । अतो मम धर्मस्य सिद्धि नवेत्य त्राऽऽस्मैव प्रमाणम् । एवञ्चतदर्थमात्मैवाऽनुसरणीयो न लोक इति लोकविरुद्धमपि विहितं धर्मार्थिनामनुष्ठेयमिति मुने न लोकयात्रया प्रयोजनमिति भावः । आत्मसाक्षिकैव सद्धर्मसिद्धिरित्यत्र दृष्ट न्त
SR No.022247
Book TitleGyansara
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherJain SMP Sangh
Publication Year1964
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy