SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ शानसारे लोकसंज्ञात्यागाऽष्टकम् साध्यत्वाकुर्लभदुष्कर साधनाधीनत्वाच तत्राऽपतिहतोत्साह वीर्यसाधनसम्पन्ना एवं प्रवर्तन्ते । तादृशाश्च न बहव इति तात्पर्यम् । तत्रोभयत्र यथाक्रमं दृष्टान्तमाह-स्तोका इति । हि-यतः, रत्नवणिजः रत्नानां हीरकप्रमृतीनां स्वनामख्यातानां रत्नानां वणिजो व्यवहारिणः, स्तोका:-अस्याः, रत्नव्यवहारकौशल्यस्य तत्साधनभूरिद्रव्यादेश्व बहुष्वसम्भवादिति बोध्यम् । रत्नव्यवहारेण लौकिकाभ्युदयो भूरिद्रविणादिलाभात् । नच तत्र बहवः प्रवर्तमाना इत्यतो लोके श्रेयोऽर्थिनो न भ्यांस इति तात्पर्यम् । चः पुनरर्थे । स्वात्ममाधका:-स्वो निज आत्मा तस्य साधका ज्ञानचारित्रादिना तत्साक्षात्कारोद्यमिनः, स्तोका:-अल्पा एव । ज्ञानस्य दुर्लभत्वा. चारित्रस्य दुराध्यत्वाच्च तादृशात्मवीर्यादि सम्पन्ना एव तत्र प्रवर्तन्ते। तादृशाश्चाऽग न बहब इत्यतो लोकोतरे श्रेयोर्थिनो न भूयांस इति भावः । एवञ्च यथाऽत्यपकृष्ट कर्मस्वरसास्तथाऽत्युत्कृष्टकर्मस्वपि न भूयांसः प्रवर्तन्ते । किन्तु शानदृष्टया सावद्येष्वपि लोकदृष्टया निरवद्यतया मन्यमानेष्वेव कर्मसु गतानुगतिकतया बहवः प्रवर्तन्ते इति बहुभिः कृतस्य करणं दोषायैवेति सुष्ठूक्तं " लोकसंज्ञारतो न स्यादि "ति बोध्यम् ॥ ५ ॥ सम्प्रति शिष्यस्य प्रबोधो यथा स्यादिति लोक रञ्जनार्थ क्रियमाणां चेष्टामुगलभमान आह लोकसंज्ञाहता हन्त ? नीचै र्गमनदर्शनैः। शंसयन्ति स्वपत्याङ्गमर्मघातमहाव्यथाम् ॥ ६॥ ..
SR No.022247
Book TitleGyansara
Original Sutra AuthorN/A
AuthorShubhankarvijay
PublisherJain SMP Sangh
Publication Year1964
Total Pages376
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy