SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ १३४ अध्यात्मोपनिषत् कामकुम्भान् महादिव्यानि दुर्लभानि वस्तूनि त्रीणि-काणकपर्दसदृशमूल्यसदृशमूल्यान् करोति कामकुम्भादिदिव्यवस्तूनि त्रीणि परममूल्यवन्ति सन्ति परन्तु मोहमूढतादि हेतुना काणकपर्दतुल्यानि मूल्यरहितानि विदधाति स महामुर्खः तथैव साम्यं महामूल्यं वस्तु वर्तते तत्त्यक्त्वा तद्रहिततपः क्रियादिकमल्पमूल्यं करोति तत्र महामोह एव कारणं नान्यत् कारणं वर्तते, साम्यसहिततपः क्रियादिक:सकलकर्मनिष्ठां कृत्वा मोक्षप्रतिष्ठां करोत्येवेति ॥ १३॥ विशिष्टसाधुनाऽप्यलभ्यगुणलाभः साम्यसमाधिनिष्ठया भवतिज्ञानी क्रियावान् विरतस्तपस्वी, ध्यानी च मौनी स्थिरदर्शनश्च। साधुर्गुणं तं लभते न जातु, प्राप्नोति यं साम्यसमाधिनिष्ठः॥ १४॥ 'ज्ञानी क्रियावानिति' ज्ञानसहितः, क्रियाविशिष्टः, विरतिमान्, तपःपूतः, ध्यानमग्नः, मौनधारी, स्थिरसम्यग्दष्टिः, एतादृश-सप्तविशेषणविशिष्टः साधुर्यं गुणं-क्षपक-श्रेण्यादिगतगुणं न कदाचिल्लभते तं निरुक्तगुणं साम्यमहिम्ना जन्यसमाधिशुक्लध्यानादिगतसमाधिनिष्ठावान् साधुः प्राप्नोति-लभते इत्यर्थः॥ १४॥ . कोपहर्षप्रसंगे साम्यवतो दमदन्तभदन्तस्य स्तुतिःदुर्योधनेनाऽभिहि (ह) तश्चुकोप, न पाण्डवै र्यो न नुतो जहर्ष। स्तुमो भदन्तं दमदन्तमन्तःसमत्ववन्तं मुनिसत्तमं तम्॥१५॥
SR No.022238
Book TitleAdhyatmaop Nishad
Original Sutra AuthorN/A
AuthorVikramsenvijay
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year2010
Total Pages178
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Book_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy