SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ चतुर्थःसाम्ययोगशुद्धिनामाधिकारः एव आभासिकाः कषायाः, प्रारब्धजन्यज्ञानिनिष्ठ-कषायनाशो न ज्ञानजन्योऽतः कषाया वास्तविका न त्वाभासिका यदि तत्र कषाया आभासिका इति कथनमभिमानमात्रमेव मन्तव्यम्। _ 'नाश्यो हि भावः प्रतिसंख्यया यो नाबोधवत् साम्यरतौ स तिष्ठेदिति' यः प्रतिसंख्यया कषायविरोधिसमतया कषायभावो नाशयोग्यो भवति । यथाऽबोधः-अज्ञानं प्रतिसंख्यारूपेण ज्ञानेन नाश्यस्तथा साम्यरतौ मुनौ स कषायभावो न तिष्ठेदिति। तथा च 'नाशो हि भावः प्रतिसंख्यया यो' हि-किल, प्रतिसंख्यापरस्परविरोधित्वरूपा, तया, यः कषायनाशविरोधिकषायभावः, कषायभावविरोधकषायनाशः "न आभासिका अबोधवत् साम्यरतौ स तिष्ठेत्''= यथा बोधभावविरोधिबोधनाशः, बोधनाशविरोधिबोधभावः, प्रतिसंख्यया आभासिका-बोधः नैकत्र तिष्ठेत्तथा साम्यरतौ मुनौ प्रतिसंख्यानीत्या आभासिककषायः अर्थात् स कषायनाशः, तद् विरोधिआभासिककषायभाव एकोऽपि न तिष्ठेत इत्यर्थः॥ १२ ॥ साम्यं विना तपः क्रियादिः प्रतिष्ठानिष्ठाफलकःसाम्यं विना यस्य तपः- क्रियादे, निष्ठाप्रतिष्ठाऽर्जनमात्र एव । स्वर्धेनु-चिन्तामणिकामकुम्भान्, करोत्यसौ काण-कपर्दमूल्यान् ॥१३॥ 'साम्यं विना यस्ये' त्यादि समताभावं विना यस्य नरस्य तपः क्रियादेः तपश्च दानादिका सर्वक्रिया च तपः क्रिया-प्रभृतेः प्रतिष्ठार्जनमात्र एव निष्ठा पूजाप्रतिष्ठाया अर्जनस्य प्राप्तिमात्रे-केवल प्राप्तौ एव निष्ठानिर्वहणं समाप्ति र्भवति, असौ एतादृक्षो नरः कामधेनु चिन्तामणि
SR No.022238
Book TitleAdhyatmaop Nishad
Original Sutra AuthorN/A
AuthorVikramsenvijay
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year2010
Total Pages178
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Book_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy