SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ १३१ । चतुर्थः साम्ययोगशुद्धिनामाधिकारः द्योतितमन्तः-करणानामन्तर्गतं मन आत्मा वा अन्तरात्मा वा, पदार्थानामन्तर्मध्यभागो वा अन्तस्तत्त्वं - परमात्मतत्त्वमित्यर्थः । बाह्यप्रकाशकै: पूर्वं यत् परमात्मतत्त्वद्योतने प्रयत्नः कृतस्तन्निष्फलतायां सत्यां 'विद्योतते तत्परमात्मतत्त्वम् प्रसृत्वरे साम्यमणिप्रकाशे = साम्यनामकनित्यमणिप्रकाशे प्रसृत्वरे - प्रकर्षेण सरतीत्येवं शीले प्रसारिणि सति तदन्तः स्वरूपं परमात्मतत्त्वं स्वयमेव विद्योतते - प्रकाशते इत्यर्थः ॥ ९ ॥ एकविवेकगर्भितविकसितसमताऽऽदरणीया भरतादिभूपेन्द्रवत्एकां विवेकाङ्कुरितां श्रिता यां, निर्वाणमापुर्भरतादिभूपाः । सैवर्जु मार्ग: समता मुनीना मन्यस्तु तस्या निखिलः प्रपञ्चः ॥ १० ॥ 'एकां अद्वैतां विवेकाङ्कुरितां विवेकनामकांकुरजनितां-विवेकेनोत्तेजितां प्रफुल्लां-यां समतां श्रिताः श्रितवन्तः ' 'भरतादि - भूपा' 'निर्वाणमापुः ' भरत आदौ येषां ते भरतादिभूपाः- भरतादिचक्रवर्तिप्रमुखा भूपाः उपलक्षणतो भूपभिन्ना अपि केचिज्ज्ञेयाः, निर्वाणं मुक्तिं कृत्स्नकर्मक्षयजन्यं निःश्रेयसं ‘आपुः' प्राप्तवन्तोऽभूवन् सा एव समता मुनीनां जगत्त्रयस्वरूपज्ञानिनां ऋजुमार्ग : सरलः पन्थाः - अकुटिलमार्ग: निष्कण्टको राजमार्गः, 'अन्यस्तु तस्या निखिल : प्रपञ्चः ' समताभिन्नो द्वितीय:- साधनाविशेषप्रकारप्रपञ्चस्तु समतासमृद्धिवृद्धये भवतीत्यर्थः, समतारूपमुख्यलक्ष्यं कृत्वा धर्मविषयकाराधना - प्रकार- प्रपञ्चो वर्त्तते सफल इत्यर्थः ॥ १० ॥ भवभीतोऽल्पीयस्यपि कषायाऽग्नौ न विश्वासमुपैति साधुःअल्पेऽपि साधुर्न कषायवह्नावह्नाय विश्वासमुपैति भीतः । 1
SR No.022238
Book TitleAdhyatmaop Nishad
Original Sutra AuthorN/A
AuthorVikramsenvijay
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year2010
Total Pages178
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Book_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy