________________
१३०
अध्यात्मोपनिषत्
___ 'विना समत्वं प्रसरन्ममत्वं सामायिकं मायिकमेव मन्ये' इति यत्र समत्वं नास्ति ममत्वमस्ति, समत्वं विहाय वृद्धिभावं प्राप्नुवन्ममत्वं विद्यते, एतादृशं सामायिकं-सामायिकनामकं विशिष्टमावश्यकं अथवा तन्नामिका क्रिया, मायिकमेव मन्ये-एतद्ग्रन्थकारः कथयति, दाम्भिकमेवाऽहं मन्ये-ममाभिप्रायः, तत्कथमिति चेद् इत्याह-'आये समानां सति सद्गुणानां, शुद्धं हि तच्छुद्धनया वि(व)दन्ति' व्युत्पत्तिपक्षापेक्षया, सम आयः, तदेव सामायिकमिति व्युत्पत्त्या, 'समानां सद्गुणानां आये सति' (निर्वाणभिन्नसंसारकार्यकारित्वेन विषमास्तेषामभावेन समाः) अत्र समशब्दस्य समस्तार्थस्य करणे समः, सर्वादित्वेन समेषामिति भवेत्, एकनिर्वाणकार्यकारित्वेन समाः-समानाः, सद्गुणाः-सम्यग्दर्शनज्ञानचारित्राद्याः क्षायोपशमिकक्षायिकभावापन्नाः, (सद्-आत्मगुणाः) तेषामर्थात् समानां सद्गुणानामाये लाभे सति हि किल, तत् सामायिकं शुद्धं निर्मायिकं, शुद्धनया-एवम्भूताद्या वि(व)दन्ति-जानन्ति कथयन्ति वेत्यर्थः॥ ८॥
कस्मिन् प्रकाशे परमात्मतत्त्वं विद्योतते ? इति प्रश्ने प्रत्याहनिशानभो-मन्दिररत्नदीप्रज्योतिर्भिरुयोतितपूर्वमन्तः। विद्योतते तत्परमात्मतत्त्वं, प्रसृत्वरे साम्यमणिप्रकाशे॥९॥
निशानभोमन्दिररत्नेति, निशारत्नस्य चन्द्रस्य च नभोरत्नस्य-सूर्यस्य च मन्दिररत्नस्य दीपस्य च दीप्रैः देदीप्यमानै यॊतिर्भी (द्योतते ज्योतिः क्लीवलिङ्गे "द्युतेरादेश्चजः") रोचिभिः-किरणैः, 'उद्द्योतितपूर्वमन्तः' =पूर्वमुद्द्योतितोऽन्तः-(सीमा, पदार्थानां निर्णयोऽन्तिमभागो वा) पूर्वमुद्