SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ वचनं स्खलति स मन्मनमूकः २। यस्त्वेलक इवाव्यक्तमूकतया शब्दमात्रमेव करोति स एलमूकः ३॥ मन्मनमूको मेधाविगुणाद्दीक्षणीयो नेतरौ १। यः पथि भिक्षाटने वन्दनादिषु वाऽतीवस्थूलतया शक्तो न भवति स शरीरजडः २। करणंक्रिया तस्यां जडः समितिगुप्तिप्रत्युपेक्षणासंयमपालनादिक्रियायां पुनः पुनरुपदिश्यमानोऽप्यतीव जडतया यो ग्रहीतुं न शक्नोति स करणजडः ३।५। व्याधितो भगन्दरातीसारप्रभृतिरोगैर्ग्रस्तः ६। स्तेनश्चौरः ७। श्रीगृहान्तःपुरनृपतिशरीरतत्पुत्रादिद्रोहको राजापकारी ८। उन्मत्तो भूतादिगृहीतः ९। अदर्शनः काणोऽन्धः स्त्यानर्द्धिको वा १०। 'दासत्ति' दासोऽङ्कितो दासीजातो वा ११। 'दुट्ठत्ति' दुष्टो द्विधा, कषायदुष्टो १ विषयदुष्टश्च २। यदाह 'दुविहो य होइ दुट्ठो, कसायदुट्ठो १ य विसयदुट्ठो २ य। सासयपुत्तीओलगित्थिसिहरणी पढम आहरणा॥११॥' तत्र सर्षपभर्जिकाभिनिविष्टसाध्वादिवदुत्कटकषायः कषायदुष्टः १। अतीव परयोषिदादिषु गृद्धो विषयदुष्टोऽपि द्विधा, स्वपरपक्षाभ्यां चतुर्भङ्गी। विषयदुष्टस्त्रिधा, स्वलिङ्गगृहिलिङ्गान्यलिङ्गभेदात्। 'संजइकप्पठिए वा, सिज्जायरि अन्नउत्थिणीए वा। एसो उ विसयदुट्ठो, दुविहोऽवि न अरिहए दिक्खं॥१॥' १२। 'मूढत्ति' मूढो मूल् व्यामूढो वा १३। 'अणत्तेत्ति' ऋणातः १४। 'जुंगिएत्ति' जातिकर्म-शरीरादिभिर्दूषितो जुङ्गितः, तत्र मातङ्गकोलिकबरडसूचिकादयोऽस्पृश्या जातिजुङ्गिताः, स्पृश्या अपि स्त्रीमयूरकुर्कुटादिपोषका वंशवरत्रारोहणनख-प्रक्षालनशौकरिकत्वादिनीचकर्मकारिणः कर्मजुङ्गिताः, करचरणकर्णादिवर्जिताः शरीरजुङ्गिताः १५। 'उवट्ठिएत्ति' उपस्थितो भोगलाहिकः १६। 'भइएत्ति' भृतको वृत्तिकिङ्करः १७। 'सेहनिप्फेडिआइयत्ति' यो हि अनुज्ञां विनाऽपहृत्य दीक्ष्यते स शिष्यनिःष्फेटिकः १८। एष तृतीयव्रतविलोपनप्रसङ्गान्न दीक्षणीयो निरतिशयैरिति। १. सर्षपभर्जिकार्थमाचार्यस्य परासोरपि दन्तभञ्जकः अवलगिका स्त्री शीखरिणी च। २. संयतो कल्पस्थितायां सव्यां यद्वा संयत्यां बलिकायां वा। अष्टादश नरदीक्षादोषाः ...२१५...
SR No.022237
Book TitleGurugunshat Trinshtshatrinshika Kulak
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherSanghvi Ambalal Ratanchand Jain Dharmik Trust
Publication Year2014
Total Pages258
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy