________________
आकिंचणमगंथत्तं, बंभं मेहुणवज्जणं । एसो दसविहो साहु- धम्मो सव्वन्नुदेसिओ ॥ ४ ॥ एयं दसविहं धम्मं, जे चरंति महेसिणो । ते संसारसमुद्दस्स, पारं गच्छंति नीरया ॥५॥' अकल्पनीयादिषट्कं प्रतीतमेव । यदुच्यते'अकप्पाईण छक्कं तु, अकप्पो गिहिभायणं । पलियंकनिसिज्जाए, सिंणाणं सोहवजणं ॥ १ ॥' एतद्विस्तरस्तु श्रीदशवैकालिकादवसेयः । इत्येवं षट्त्रिंशद्गुणो गुरुर्जयतु। इति गाथार्थः॥१३॥ अथ त्रयोदशषट्त्रिंशिकासूत्रगाथामाह -
२
दसभेयाइ रुईए, दुवालसंगेसु बारुवंगेसु । दुविहसिक्खाइनिउणो, छत्तीसगुणो गुरू जयउ ॥ १४ ॥ व्याख्या - दशभेदायां रुचौ, द्वादशाङ्गेषु, द्वादशोपाङ्गेषु द्विविधशिक्षायां च निपुण इति षट्त्रिंशद्गुणो गुरुर्जयत्विति मुकुलितार्थः । विकसितार्थस्त्वयम्-दशभेदा रुचिर्निसर्गोपदेशादिका । यदाह
'निस्सग्गु १ वएसरुई २, आणारुई ३ सुत्त ४ बीय ५ रुइमेव । अभिगम ६ वित्थाररुई ७, किरिया ८ संखेव ९ धम्म १० रुई ॥ १ ॥ ' ( उत्तराध्ययनसूत्रम् १०५८)
'जो जिणदिट्ठे भावे, चउव्विहे सद्दइ सयमेव । सो होइ निस्सग्गरुई, तव्विवरी ओवएसरुई ॥ २ ॥ जिणआणं मन्नतो, जीवो आणारुई मुणेयव्वो । अंगोवंगाईयं, मन्नतो होइ सुत्तरुई ॥ ३ ॥ एगपयागपए, जस्स मई पसरए स बीयरुई । सो होइ अभिगमरुई, सुत्तं जेणत्थओ दिट्ठ ॥ ४ ॥
१. स्नानम्॥
...२००...
अकल्पनीयादिषट्कं, दशभेदा रुचिः