________________
सप्तधातुमये देहे, चयापचयधर्मिणि ।
जरारुजाभिभाव्यस्य, को रूपस्य मदं वहेत् ? ॥३ ॥
बलवन्तोऽपि जरसि, मृत्यौ कर्मफलान्तरे । अबलाश्चेत्ततो हन्त !, तेषां बलमदो मुधा ॥ ४ ॥ श्रीमद्गणधरेन्द्राणां श्रुत्वा निर्माणधारणे । कः श्रयेत् श्रुतमदं, सकर्णहृदयो जनः ? ॥ ५ ॥ नाभेयस्य तपोनिष्ठां, श्रुत्वा वीरजिनस्य च । को नाम स्वल्पतपसि, स्वकीये मदमाश्रयेत् ॥६॥ अन्तरायक्षयादेव, लाभो भवति नान्यथा । ततस्तु वस्तुतत्त्वज्ञो न लाभमदमुद्वहेत् ॥७ ॥ गुणोज्जवलादपि भ्रश्ये- दोषवन्तमपि श्रयेत् । कुशीलस्त्रीव या श्रीः सा, न मदाय विवेकिनाम् ॥८ ॥ इत्येतैर्मदस्थानैरपि रहितो गुरुः । इति गाथार्थः ॥ ६ ॥ अथ सूत्रतः षष्ठषट्त्रिंशिकामाह - अट्ठविहनाणदंसण-चारित्तायारवाइगुणकलिओ । चउविहबुद्धिसमिद्धो, छत्तीसगुणो गुरू जयउ ॥७॥
व्याख्या- प्रत्येकमष्टविधज्ञानाचारदर्शनाचारचारित्राचारवादिगुणकलितः, चतुर्विधबुद्धिसमृद्धश्चेति षट्त्रिंशद्गुणो गुरुर्जयत्विति सङ्क्षेपार्थः । विस्तरार्थस्त्वयम् - अष्टविधो ज्ञानाचारः कालविनयादिकः । यदाह - ‘काले विणए बहुमा-णे उवहाणे तंहा अनिण्हवणे। वंजण अत्थ तदुभए, अट्ठविहो नाणमायारो ॥ १ ॥ '
'जं जम्मि होइ काले, आयरियव्वं स कालआयारो । सेसो होइ अकालो, तत्थ य धमएण दिट्ठतो ॥ २ ॥
१. ब पुस्तके 'तह य निण्हवणे' इत्यपि ॥
( दशवैकालिकनिर्युक्तिः १८४ )
...१८६...
अष्टविधो ज्ञानाचारः